________________
१५२
अनेकान्तजयपताकाख्यं प्रकरणम् [ तृतीयः
(मूलम्) धयोगात् । समानविषययोः पुनरनयोर्भावस्तथा भवन्नपि न नो बाधायै, अक्रमेणाप्रवृत्तेः । एवंच 'अतीताद्यर्थगतविकल्पेनापीन्द्रिय५ज्ञानतो रूपादिग्रहणसिद्धेः' इत्यादि, यावद् 'भिन्नजातीयत्वात्
इत्येतद् व्युदस्तमवसेयम्, अक्रमप्रवृत्तावतीतादिविकल्परूपादिग्रहणयोरस्य साफल्योपपत्तेः, अन्यथा वाङ्मात्रत्वात् ॥
आह-यद्यत्र क्रमः कथं न संलक्ष्यत इति ? । उच्यते-उत्पलपत्रशतव्यतिभेदवत् कालसौक्षयात्,छद्मस्थममातुरनाभोगबहुलत्वात्, १० अदृष्टप्रतिबन्धात्, वस्तुनोऽनेकधर्मत्वात्, यथाक्षयोपशममव
(खो० व्या०) एवं तावद् भिन्नविषययोः सविकल्पाविकल्पज्ञानयोयौंगपद्यमसम्भव्येव निदर्य साम्प्रतमिमाह-समानेत्यादि । समानविषययोः पुनरनयोः-सविकल्पाविकल्पज्ञानयोभावः । तथा-हेतुफलभावेन भवन्नपि अहिरहिरित्यादौन नोबाधायै१५ नास्माकं बाधार्थम् । कुत इत्याह-अक्रमेत्यादि । अक्रमेण अप्रवृत्तेः । अवग्रहकल्पादविकल्पादवायकल्पसविकल्पभावेन क्रमेण प्रवृत्तेरित्यर्थः । एवं चेत्यादि । एवं सति अतीताद्यर्थगतविकल्पेनापि प्रमात्रा इन्द्रियज्ञानतो रूपादिग्रहणसिद्धेः इत्यादि पूर्वपक्षोक्तं यावद् "भिन्नजातीयत्वात्' इत्येतद् व्युदस्तम्-अपाकृतमवसेयम् । कुत इत्याह-अक्रमप्रवृत्तौ सत्यामतीतादि२०विकल्परूपादिग्रहणयोरस्य-पूर्वपक्षोक्तस्स साफल्योपपत्तेः । अन्यथाअक्रमप्रवृत्तिमन्तरेण वायात्रत्वात् इति ।।
आह-यद्यत्र-सविकल्पाविकल्पज्ञानद्वये क्रमः कथं न संलक्ष्यत इति । उच्यते-उत्पलपत्रशतव्यतिभेदवत् कालसौक्ष्म्यात् न संलक्ष्यत इति । किमेतदेवमित्याह-छद्मस्थप्रमातुरनाभोगबहुलत्वात् । अनाभोगबहुलत्वं च २५ अष्टकर्मप्रतिबन्धात्, तथा वस्तुन:-प्रमेयस्य अनेकधर्मकत्वात् तथा विभ्रमादिनिबन्धनत्वेन यथाक्षयोपशमं यस्य यथाक्षयोपशमस्तथाऽवबोध
(विवरणम्) (२५-२६) तथा विक्रमादिनिबन्धनत्वेनेति । विभ्रमः-विपर्यासः। 'आदि'शब्दात् सन्देहोऽनध्यवसायश्च परिगृह्यते ततो विभ्रमादीनां निवन्धनं-कारणं तस्य ३० भावः-तत्त्वं तेन । अयमभिप्रायः-अनेकधर्मकं वस्तु ततस्तदेशाधपेक्षया कस्यचित् कैथञ्चिद् विभ्रमादिनिबन्धनं सम्पद्यते ॥
१ प्रेक्ष्येतां १३८ तमं १३९ तमं च पृष्ठे । २ 'एवं चेत्यादि' इत्यभिको उ-पाठः । ३ १३८तमे पृष्ठे १३९ तमे च। ४ 'कालसूक्ष्मत्वान' इति क-पाठः। ५ 'गृह्यतां ततो' इति कपाठः। ६ 'कथं विभ्रमा०' इति च-पाठः ।