________________
अधिकारः।
वोपशव्याख्यामुनिचन्द्रीयविवरणयुतम्
१५१
अपि पीतादिषिकल्पापत्तेः तदभावप्रसङ्गात् , निश्चयबलाद्धि तद्भावसिद्धिः, स चेदन्यदर्शनादप्यन्यविषयः, अप्रामाणिकाऽन्यसत्तेति विश्वस्य नीलमात्रतापत्तिः। भिन्नदर्शनविषयाः पीतादय इति चेत्, ५ न, तेषामनिश्चयात्मकत्वेन तथाताऽनधिगतेः । न च तन्निश्चयात् तदधिगतियुक्ता, तस्यान्यतोऽपि भावेन तत्प्रतिबन्धासिद्धेः।स पारम्पर्येण तद्दर्शनसामोद्भूत एव, सदाऽतद्दर्शिनोऽभावादिति चेत्, न, इत्थं सर्वत्रानाश्वासेनासमञ्जसत्वापत्तेः, सन्निहितार्थदर्शनबलोत्पन्ननिश्चयादपि पारम्पर्येणार्थान्तरदर्शनशक्तिजत्वारेकातः प्रवृत्त्या-१०
(स्वो० व्या०) निमित्तत्वे चातिप्रसङ्गात् । एनमेवाह-नीलदर्शनादपि सकाशात् पीतादिविकल्पापत्तेः । यदि नामैवं ततः किमित्याह-तदभावप्रसङ्गात्-पीताधभावप्रसङ्गात् । एतदेव स्पष्टयति निश्चयेत्यादिना । निश्चयबलादू यस्मात् तद्भावसिद्धिः-पीतादिभावसिद्धिः । स चेत् निश्चयः, अन्यदर्शनादप्यन्यविषयो १५ भवति । अप्रामाणिकाऽन्यसत्ता इह तावत् प्रक्रमादन्यत् पीतादि । ततश्चाप्रामाणिका पीतादिसत्ता इति कृत्वा विश्वस्य-सर्वस्य नीलमात्रतापत्तिः यावत् किञ्चित् सत् तत् सर्व नीलमिति । पीतादिनिश्चयस्तु नीलदर्शनादेवेति न्यायोपपत्तेः भिन्नदर्शनविषयाः-पीतादिदर्शनविषयाः पीतादयः। इति चेत्, एतदाशझ्याह-नेत्यादि । न-नैतदेवम् । तेषां-दर्शनानामनिश्चयात्मकत्वेन हेतुना २० तथाताऽनधिगते-पीतादिरूपतया भिन्नताऽनधिगतेः। न चेत्यादि । न च तन्निश्चयात्-पीतादिनिश्चयात् तदधिगतिः-दर्शनानां तथाभिन्नताधिगतिः युक्ता । कुत इत्याह-तस्य-सामान्येन निश्चयस्य अन्यतोऽपि-दर्शनान्तरादपि भावेन हेतुना तत्प्रतिबन्धासिद्धेः-पीतादिदर्शनभेदेन सह पीतादिनिश्चयस्य प्रतिबन्धासिद्धेः। सः-पीतादिनिश्चयः पारम्पर्येण तदर्शनसामोद्भूत एव-२५ पीतादिदर्शनसामोद्भूत एव । कुत इत्याह-सदाऽतद्दर्शिन:-पीताद्यदर्शिनः अभावात् । इति चेत्, एतदाशङ्याह-नेत्यादि । न-नैतदेवम् । इत्थम्-एवं सर्वत्रानाश्वासेन हेतुना। किमित्याह-असमञ्जसत्वापत्तेः। एनामेवाहसन्निहितार्थदर्शनबलोत्पन्ननिश्चयादपि सकाशात् पारम्पर्येार्थान्तरदर्शनशक्तिजत्वारेकातः-आशङ्कातः कारणात् प्रवृत्त्याद्ययोगात्। 'आदि'-३० शब्दात् प्राप्तिपरिग्रहः ॥ १ 'मात्रत्वापत्तिः' इति ग-पाठः। २ वाऽतिप्रसङ्गात्' इति घ-पाठः। ३ पीत्यादिनिश्चयात्'
इति -पाठः।