________________
१५०
अनेकान्तजयपताकाख्यं प्रकरणम्
[तृतीयः
एतेन 'अन्यत्रानयोर्योगपद्येऽपि भेददर्शनात्' 'इत्यादि प्रत्युक्तम् , तत्वतस्तुल्ययोगक्षेमत्वात् ॥
किश्च अनयोभिन्नविषयत्वेन तथापि जन्मायुक्तम् , अन्यदर्शनस्य अन्यविकल्पानिमित्तत्वात् , निमित्तत्वे चातिप्रसङ्गात् , नीलदर्शनात्
(खो० व्या०) मात्रत्वात्-अर्थशून्यत्वादधिकृतवचसः। युक्त्यभावश्चेह खलक्षणसामान्यलक्षणयोरकत्राप्रतिभासनात्, अनुभवस्य चासङ्कीर्णोभयग्राहिणो भावादिति । १० एतेनेत्यादि । एतेन-अनन्तरोदितेन दूषणजातेन 'अन्यत्रानयोयोगपद्येऽपि
भेददर्शनात्' इत्यादि पूर्वपक्षोक्तं प्रत्युक्तं-निराकृतम् । कुत इत्याह-तत्त्वतःपरमार्थतः तुल्ययोगक्षेमत्वादिति ॥
किश्वेत्यादिनाऽम्युच्चयमाह-किञ्च अनयोः-सविकल्पाविकल्पज्ञानयोरुदाहृतयोः भिन्नविषयत्वेन हेतुना जातिभेदतः तथापि, प्रक्रमात् क्रमेणापि, यथैकजाती१५ ययोस्तथापि जन्मायुक्तम्-अघटमानकम् । कुत इत्याह-अन्यदर्शनस्यरूपादिदर्शनस्य अन्यविकल्पानिमित्तत्वात्-अतीताद्यर्थगतविकल्पानिमित्तत्वात्
(विवरणम्) (८-९) स्वलक्षणसामान्यलक्षणयोरेकत्राप्रतिभासनादिति । न हि यत्रैव स्खलक्षणं प्रतिभासते तत्रैव सामान्यम् , विरोधात् । न चाप्रतिभासमानयोर्मेंद२० व्यवसायः, अतिप्रसङ्गात् ॥
(१२) तुल्ययोगक्षेमत्वादिति । तुल्यरूपत्वाद् दूषणस्य । तथाहि-कथमेकस्मादविकल्पक्षणादतीतार्थप्रतिबद्धो विकल्पो वर्तमानार्थगोचरं च निर्विकल्पकमिति योगपद्येन द्वयं प्रादुर्भवति ? कारणभेदपूर्वकत्वात् कार्यभेदस्य ।।
(१४-१५) यथैकजातीययोरिति । अयमत्राभिप्रायः-यथा नीलस्खलक्षणक्षणाव२५ लोकनानन्तरं तद्विषयो विकल्पः प्रवर्तते सजातीयत्वात् , एवं कथं नीलस्खलक्षणाव
लोकनसमयानन्तरमतीतार्थप्रतिबद्धो भिन्नजातीयो विकल्पः स्यात् ? । न तु यदेव निर्विकल्पकगोचरतत्रैव विकल्पो नान्यत्रेति प्रसङ्गात् ॥
प्रेक्ष्यतां १३८ तमं पृष्टम् । २ 'वाऽति०' इति व-पाठः। ३ 'भवस्य वा सकीर्णो' इति क-पाठः। ४ १३८तमे पृष्ठे । ५ 'तथाऽऽह कथ.' इति क-पाठः। ६ 'कल्पकलक्षणा.' इति क-पाठः। . 'जातीययोर्विकल्पः इति क-पाठः। ८ 'ननु यदेव' इति च-पाठः । .