________________
अधिकारः] खोपान्याल्यामुनिचन्द्रीयविवरणयुतम्
(मूलम्) स्थादेतत् ऐक्यव्यवसायस्तदपरो विकल्प एव, व्यवसायस्य परिच्छेदात्मकत्वात् । स किंविषय इति वाच्यम् । तदुभयविषय इति चेत्, कथमतत्प्रतिभासी तद्विषयः? । तत्प्रतिभासित्वे वा कथमैक्यं ५ व्यवस्यति? । न चात्यन्तभिन्नयोस्तथाव्यवसाये निमित्तम् । भ्रान्त एवायमिति चेत्, तदन्यैवंविधभावे कथं नेतरयोर्भेदव्यवसायः । व्यवसाय एवेति चेत्, न, तथायुक्त्यनुभवाभावेन वामात्रत्वात् ।
(स्वो० व्या०) इत्याह-मिथः-परस्परं भेदाभ्युपगमात् । यदि नामैवं ततः किमित्याह-व-१० विषयनियतत्वेन हेतुना तथाप्रतिभासानुपपत्तेः-ऐक्यप्रतिभासानुपपत्तेः प्रतिभासश्च व्यवसाय इति । एवमपि तथाप्रतिभासानुपपत्तावपि तदभ्युपगमेऐक्यव्यवसायाभ्युपगमेऽतिप्रसङ्गात्-शशविषाणादिव्यवसायापत्तेः ॥
स्यादेतदित्यादि । स्यादेतत् ऐक्यव्यवसायोऽधिकृतस्ताभ्यां-सविकल्पाविकल्पविज्ञानाभ्यामपर:--अन्यो विकल्प एव । कुत इत्याह-व्यवसायस्य परि- १५ च्छेदात्मकत्वात् । एतदाशङ्कयाह-स किविषयो विकल्प इति वाच्यम् । तदुभयविषयः-सविकल्पाविकल्पविज्ञानोभयविषयः। इति चेत्, एतदाशङ्कयाहकथमतत्प्रतिभासी-सविकल्पाविकल्पविज्ञानाप्रतिभासी सन् तद्विषयः-सविकल्पाविकल्पज्ञानविषयः? । तत्प्रतिभासित्वे वा-सविकल्पाविकल्पविज्ञानप्रतिमासित्वे वा सति कथमैक्यं व्यवस्यति-परिच्छिनत्ति । तद्भदव्यवसायरूपत्वादि- २० त्यर्थः । न चेत्यादि । न च अत्यन्तभिन्नयोर्जातिभेदेन, सविकल्पाविकल्पविज्ञानयोरिति प्रक्रमः, तथाव्यवसाये-ऐक्येन व्यवसाये निमित्तं नीलपीतयोरिव । भ्रान्त एवायम्-अपरो विकल्पः । इति चेत्, एतदाशब्याह-तदन्येत्यादि । तस्मात्-प्रान्तादन्यः-अम्रान्त एवंविध उभयविषयस्तस्य भावे सति कथं न इतरयोः-सविकल्पाविकल्पविज्ञानयोर्भेदव्यवसायः तदन्येन ? । न ह्यस्मिन् २५ सत्यरूपेऽसत्यस्य प्रान्ततेति हृदयम् । व्यवसाय एवेति चेत्, अन्येनेतरयोरिति । एतददशल्याह-नेत्यादि ।न-नैतदेवम् , तथायुक्त्यनुभवाभावेन हेतुना वाङ्
(विवरणम्) (१०-११) स्वविषयनियतत्वेन हेतुनेति। निर्विकल्पज्ञानस्य हि सौगताभ्युपगमेन परस्परविनि ठितक्षणक्षयि परमाणुलक्षणवलक्षणानि गोचरः । सविकल्पकज्ञानस्य ३० तु बुद्धौ परिप्लवमानमूर्तिसामान्यं विषयः ॥ 1 'माधुक्यनः' इति क-पाठः। २'लक्षणामिगोचरः' इति च-पाठः ।