________________
१४८
अनेकान्तजयपताकास्यं प्रकरणम्
[तृतीयः
यचोक्तम्-'विमूढः प्रतिपत्ता तमपश्यन्नैक्यं व्यवस्यति, न तु तथा तत्' इत्येतदप्ययुक्तम् , अनालोचिताभिधानत्वात्, विचारा५ क्षमत्वात् । तथाहि-कः पुनरत्र प्रतिपत्ता यस्य तत्वभावभेदादर्शनाद् विमोह ऐक्यव्यवसायो वा? । न तावदेक उभयद्रष्टा, अनभ्युपगमात् । न च सविकल्पाविकल्पे विज्ञाने एव, तयोर्विमोहासिद्धेः, स्वसंवेदनरूपत्वेन ववभावदर्शनात् । इत्थमपि विमोहे तदनुच्छेदापत्तिः, उपायाभावात्। न चानयोरैक्यव्यवसायः, मिथो १० भेदाभ्युपगमात् स्वविषयनियतत्वेन तथाप्रतिभासानुपपत्तेः, एवमपि तदभ्युपगमेऽतिप्रसङ्गात् ॥
(स्वो० व्या०) गुणत्वात्-बोधापेक्षया विषयवस्त्वनुगुणत्वात् इति एवं व्यवहारतः स्वभावभेदाभावः । निश्चयतस्तु प्रतिव्यक्त्ययं विद्यत एवेति ॥ ५ यचोक्तं पूर्वपक्षग्रन्थे-'विमूढः प्रतिपत्ता तमपश्यन्नैक्यं व्यवस्थति, न तु तथा तत्' इत्येतदप्ययुक्तम् । कुत इत्याह-अनालोचिताभिधानत्वात् । अनालोचिताभिधानत्वं च विचाराक्षमत्वात् । विचाराक्षमत्वमुपदर्शयन्नाह-तथाहीत्यादि । तथाहि कः पुनरत्र प्रतिपत्ता भवतोऽभिप्रेतो
यस्य तत्वभावभेदादर्शनाद हेतोः विमोह ऐक्यव्यवसायो वा ? | २० न तावदेक आत्मा, उभयोः-सविकल्पाविकल्पयोर्द्रष्टा । कुत इत्याह-अनभ्युपगमात् एवंविधैकस्य । न च सविकल्पाविकल्पे ज्ञाने एव प्रतिपत्तृणी । कुत इत्याह-तयोः-सविकल्पाविकल्पज्ञानयोर्विमोहासिद्धेः । असिद्धिश्च स्वसंवेदनरूपत्वेन हेतुना । ताभ्यां स्वखभावदर्शनादिति । इत्थमपि स्वस्वमावदर्शनेऽपि सति विमोहे तदनुच्छेदापत्तिः-मोहानुच्छेदापत्तिः। कुत इत्याह२५ उपायाभावात् । न हि स्वसंवेदनरूपे कदाचिदन्यथा भवत इत्युपायाभावः । न चेत्यादि । न च अनयो:-सविकल्पाविकल्पयोर्विज्ञानयोः ऐक्यव्यवसायः। कुत
(विवरणम्) (१५) निश्चयतस्तु प्रतिव्यक्त्ययं विद्यत एवेति । निश्चयनयाभिप्रायेण हि चानुपादिप्रत्यक्षाणामपि अन्यान्यालम्बनत्वेन भेदो विद्यत एवेति न व्यक्तिभेदेन ३० प्रामाण्याप्रामाण्यलक्षणो भेदो निर्विकल्पाविकल्पयोर्ज्ञानयोर्व्यवहर्तुमुचितः ॥
.५ १३८ तमे पृष्ठे । २ 'व्यक्ति स विद्यत' इति -पाठः । ३ १३८ तमे पृष्ठे । ४ 'व्यकार्या वियत' इति स-पाठः । च-पाठस्तु 'वकायां विद्यत' इति ।
.
-
-
--
-
-
--