________________
अधिकारः] खोपाव्यास्थामुनिचन्द्रीयविवरणयुतम्
१४७ (मूलम्) मित्यनालम्बनम् , अविकल्पस्यालम्बनत्वात् । न च तद्भावकाले तद्भावः, तदसदुदयाभ्युपगमात् ।न चैवमपि न तदतीतता, तदा तदसत्त्वेन तदुपपत्तेः। न च तदाकारतादिना भेदः, द्वयोरपि तदाकारता- ५ ऽसिद्धेः, तस्य प्रतिभावनियमात्, बोधामूर्तत्वरूपतया तत्तुल्याकारताऽयोगात्, खाकारस्य तु विकल्पेऽपि भावात् , तस्यापि तन्निश्चयात्मकत्वेन तदनुगुणत्वात्। इति व्यवहारतः स्वभावभेदाभावः।
(खो० व्या०) त्यादि । तत्स्वभावानुकारातिरेकेण-तदुत्थज्ञानस्वभावानुकारातिरेकेण, विकल्पस्येति । प्रक्रमः, तदुपादानत्वायोगात्-तदुत्थज्ञानोपादानत्वायोगाद् विकल्पस्य । न हि अमृत्स्वभावमुदकं मृदुपादानम् , अपि तु घट एव, तत्स्वभावानुकारादिति भावनीयम् ॥
दोषान्तरपरिजिहीर्षयाऽऽह-न चेत्यादि । न च तत्-विषयवस्तु अतीतमिति कृत्वा क्षणिकत्वेन अनालम्बनम् , प्रक्रमाद् विकल्पस्य, किन्त्वालम्बनमेव । कुत इत्याह-अविकल्पस्यालम्बनत्वात्, अतीतत्वेऽपीत्यभिप्रायः । न च तद्भाव-५ काले अविकल्पभावकाले तद्भावः-विषयवस्तुभावः । कुत इत्याह-तदसदुदया. भ्युपगमात् तस्मिन्-विषयवस्तुनि असत्युदयाभ्युपगमात्, प्रक्रमादविकल्पस्य । न चैवमपि तदसदुदयेऽपि न तदतीतता-न विषयवस्त्वतीतता । कुत इत्याह-- तदा-विकल्पोदयकाले तदसत्त्वेन-विषयवस्त्वसत्त्वेन तदुपपत्तेः-अतीतत्वोपपत्तेः । न च तदाकारतादिना-विषयवस्त्वाकारतादिना, 'आदि'शब्दादानन्त- २० यादिग्रहः, भेदः, सविकल्पाविकल्पयोरिति प्रक्रमः । कुत इत्याह-द्वयोरपि अनयोः तदाकारताऽसिद्धेः-विषयवस्त्वाकारताऽसिद्धेः । तस्य-आकारस्य प्रतिभावनियमात्-भावं भावं प्रति नियमात् । न ह्यन्यभावाकारोऽन्यमावे भवति, तदेकवप्रसङ्गादित्यर्थः । तत्तुल्याकारतैव तदाकारतेत्यप्यसदित्यावेदयन्नाह-बोघेत्यादि । बोधाऽमूर्तत्वरूपेण हेतुनाऽविकल्पज्ञानस्य तत्तुल्याकारताऽयोगात्-२५ विषयवस्तुतुल्याकारताऽयोगात् । स्वाकार एव तदाकारतेत्यप्ययुक्तमित्याहखाकारस्य तु विकल्पेऽपि भावात् । न ह्यविकल्प एव खाकारः, अपि तु विकल्पेऽपि । तदनुगुणत्वं तदाकारतेत्यपि समानमित्यावेदयन्नाह-तस्यापीत्यादि । तस्यापि-विकल्पस्य तन्निश्चयात्मकत्वेन-विषयवस्तुनिश्चयात्मकत्वेन तदनु
१ तदाऽविकल्पोदय.' इति क-पाठः। २ 'कारतासिदेः' इति क-पाठः। ३ 'गुणस्व. तदा०' इति घ-पाठः।