________________
. अनेकान्तजयपताकाश्यं प्रकरणम् [तृतीयः
(मूलम्) चेत्, ततः को दोष इति वाच्यम् । नैकस्मादनेकजन्म इति चेत्,
कथं न? तत्तत्स्वभावत्वेन, सङ्क्रान्त्या तदयुक्तेरिति चेत्, तदभावे ५ तद्युक्तिरित्यद्भुतम्। ततोऽसद्भावादनद्भुतमिति चेत्, तत्तथाभावतोऽभवदसद् भवतीत्यद्भुतमेवेति परिभाव्यतामेतत् ॥
न चानयोः स्वभावभेद एव, तत्त्वत एकविषयत्वात्, विकल्पस्थापि पारम्पर्येण तद्वस्त्वालम्बनत्वात् तदुत्वज्ञानोपादानत्वात्, तत्स्वभावानुकारातिरेकेण तदुपादानत्वायोगात् । न च तदतीत
(स्वो० व्या) अनिषेधप्रसङ्गो दोषः। ते-प्रधानादयः तथाभावजनकास्तथाभावेन-तत्तथाभवनलक्षणेन जनका महदादेः । इति चेत्, एतदाशङ्याह-ततः को दोष इति वाच्यम् । नैकस्मादनेकजन्म तत्तद्भावेन दोषः । इति चेत्, एतदाशयाह-कथं न एकस्मादनेकजन्म? । तत्तत्वभावत्वेन तस्य-प्रधानादेः १५ तत्स्वभावत्वेन, तथाभावतोऽनेकजन्मस्वभावत्वेनेत्यर्थः । सङ्क्रान्त्या हेतुभूतया तत्तद्भावेन तयुक्तेः-तत्तत्स्वभावत्वायुक्त कस्मादनेकजन्म। इति चेत्, एतदाशझ्याह-तदभाव-सङ्क्रान्त्यभावे तदेकान्तनिवृत्त्या तद्युक्तिः-तत्तत्स्वभावत्वयुक्तिः इति अद्भुतम्-आश्चर्यमेतत् । ततः कारणात् असद्भावात्-असतो भावेन अन
द्भुतम्-अनाश्चर्यम् । इति चेत्, एतदाशङ्कयाह-तत्तथाभावतः तस्य-कारणस्य २० तथाभावेन-कार्यभावेन अभवत् एकस्मादनेकम् असद् भवति तुच्छातुच्छप्रतिपत्त्या इत्यद्भुतमेवेति परिभाव्यतामेतत् । न ह्यसत् सद् भवति, अतिप्रसङ्गादित्यभिप्रायः ।। - न चेत्यादि । न च अनयोः, प्रक्रमात् सविकल्पाविकल्पयोः प्रस्तुतज्ञानयोः,
खभावभेद एव एकान्तेन । कुत इत्याह-तत्त्वतः-परमार्थेन एकविषयत्वात्। २५ कथमेतदेवमित्याह-विकल्पस्यापि पारम्पर्येण तद्वस्त्वालम्बनत्वात् । एतच परदर्शने विकल्पस्य गृहीतग्राहित्वाभ्युपगमेन, स्वदर्शने त्ववग्रहावायभावेन इति सामान्येनैव तद्वस्त्वालम्बनत्वमाह । तदुत्थज्ञानोपादानत्वात्-विवक्षितविषयोस्थाविकल्पज्ञानोपादानत्वाद् विकल्पस्य । यदि नामैवं ततः किमित्याह-तत्स्वभावे
(विवरणम्) ३० (११-१२) तत्तथाभवनलक्षणेनेति । तस्यैव-प्रधानादेस्तथाभवनं-महदादिरूपतया परिणमनं तदेव लक्षणं यस्य तथाभावस्य स तथा तेन ॥
१ 'भवे जनका०' इति ङ-पाठः । २ 'मेद एकान्तेन' इति स-पाठः । ३ 'त्ववाहापायभावेन' इति प्र-पारः।