________________
अधिकारा]
स्वोपशव्याख्याभुनिषन्द्रीयविवरणयुतम्
अत्रोच्यते-यदुक्तम्-'सविकल्पाविकल्पयोर्विज्ञानयोः स्वभावभेदेऽपि प्रतिभासभेदेन युगपत्तेः ' इत्यादि, तदयुक्तम् , एकविषययोः सविकल्पाविकल्पयोर्युगपदवृत्त्यसिद्धः, तदविकल्पपूर्वक- ५ त्वात् तद्विकल्पस्य, अन्यथाऽस्याहेतुकत्वापत्तिः, तथा च सदा सदसत्त्वप्रसङ्गः । सोऽपि तत्पूर्वक एवेति चेत्, कथमनयोयुगपदवृत्तिः । प्रबन्धापेक्षयेति चेत्, कथमाद्याविकल्पादुभयजन्म? । तत्तत्स्वभावत्वादिति चेत्, कथं कारणभेदो भेदहेतुः? । यदि न, ततः को दोष इति चेत्, प्रधानादीनामनिषेधप्रसङ्गः। ते तथाभावजनका इति.
(स्त्रो० व्या) 'खमस्य, अस्य स्वामी' इतीतरेतरप्रतिपत्तिनान्तरीयकी स्वस्खामिप्रतिपत्तिः। उपसंहरन्नाह -एवमपि अनेकप्रमाणवादहानितोऽपि सविकल्पकप्रत्यक्षानुपपत्तिरिति ॥
एतदाशयाह-अत्रोच्यते-यदुक्तम-सविकल्पाविकल्पयोर्विज्ञानयोः स्वभावभेदेऽपि प्रतिभासभेदेन युगपदवृत्तेः' इत्यादि पूर्वपक्षे तद-१५ युक्तम् । कुत इत्याह-एकविषययोः सविकल्पाविकल्पयोः । किमित्याहयुगपवृत्त्यसिद्धेः । असिद्धिश्च तदविकल्पपूर्वकत्वात्-विवक्षितकविषयाविकल्पपूर्वकत्वात् तद्विकल्पस्य-सामान्येन विवक्षितैकविषयविकल्पस्य,अन्यथाअतत्पूर्वकत्वेऽस्य-विकल्पस्य अहेतुकत्वापत्तिः, तदपरहेत्वयोगात् । तथा च सदा-सर्वकालं सदसत्वप्रसङ्गोऽधिकृतविकल्पस्य,
२० ___ "नित्यं सत्त्वमसत्त्वं वा हेतोरन्यानपेक्षणात्" इति वचनात् । सोऽपि अधिकृतविकल्पः तत्पूर्वक एव-विवक्षितैकविषयाविकल्पपूर्वक एव । इति चेत्, एतदाशङ्याह-कथमनयोः-अविकल्पविकल्पयोः । युगपवृत्तिः। प्रबन्धापेक्षया। इति चेत् युगपवृत्तिः, एतदाशङ्याहकथमित्यादि । कथं-केन प्रकारेण आद्यं च तत् अविकल्पं चेति विग्रहः तस्मात् २५ उभयजन्म-सविकल्पाविकल्पजन्म । तत्तदित्यादि । तस्य-आद्याविकल्पस्य तत्स्वभावत्वात्-सविकल्पाविकल्पजननखभावत्वादुमयजन्म । इति चेत् , एतदाशक्याह-कथं कारणभेदो भेदहेतुः । कार्याणामिति शेषः । नैव, तदभावेऽपि तद्भेदसिद्धेरित्यभिप्रायः । यदि न कारणभेदो भेदहेतुः ततः को दोषः । इति चेत्, एतदाशयाह-प्रधानादीनाम्, 'आदि'शब्दात् परमपुरुषग्रहः । ३०
११३८तमे पृष्ठे । २ 'सविकल्पकाकल्प०' इति क-पाठः। ३ 'तत्वभाव.' इति क-पाठः। ४१३८तमे पृष्ठे। ५ 'कल्पयो न.' इति घ-पाठः।