________________
१.४४
अनेकान्तजयपताकाख्यं प्रकरणम् [तृतीयः
(मूलम्) · न चोपकारिकाः शक्तयस्ततो भेदमनुभवन्ति, असत्युपकारेस्येमाः शक्तयः इति सम्बन्धायोगात्, आधाराधेयभावस्यापि तन्नि५ बन्धनत्वात्, अन्यथा कल्पनामात्रं स्यात् । तथा च शक्तीनामन
वस्था, ततः खात्मैवास्याशेषधर्मोपकारिकाः शक्तयः, तस्य सर्वधर्मोपकारकत्वेन निश्चये तदुपकार्या अपि धर्मा निश्चिता एव, तन्निश्वयनान्तरीयकत्वादुपकारकनिश्चयस्य । न हि ये यदपेक्षस्थितयस्ते तदनिश्चये तथा निश्चीयन्ते स्वस्वामित्ववदिति । एवमपि सविकल्पक१० प्रत्यक्षानुपपत्तिरिति ॥
(स्वो व्या०) न चेत्यादि । न च उपकारिकाः शक्तय उपकारकसम्बन्धिन्यस्ततः-उपकारकाद् धर्मिणो भेदमनुभवन्ति । कुत इत्याह-असत्युपकारे उपकारकसम्बन्धिनि । अस्य-उपकारकस्य धर्मिण इमाः शक्तय इति-एवं सम्बन्धा१५ योगात् । अयोगश्च निमित्ताभावेन ! आधाराधेयभावः सम्बन्धो भविष्यतीत्याशङ्कापोहायाह-आधाराधेयभावस्यापि कुण्डबदरायुदाहरणादिसिद्धस्य तन्निबन्धनत्वात्-उपकारनिबन्धनत्वात् । तथाहि-पंतनधर्माणां बदराणामपतनस्वभावाधानेनोपकारकं कुण्डं बदराणामिति भावनीयम् । इत्थं चैतदङ्गीकर्तव्यमित्याह-अन्यथे
सादि । अन्यथा-एवमनभ्युपगमे कल्पनामानं स्यादाधाराधेयभावः । न चैत२० देवमित्युपकारसिद्धिः। तथा चेत्यादि । तथा चैवं चोपकारसिद्धौ सत्यां शक्तीनामनवस्था-यकाभिः शक्तिभिः शक्तीनामुपकरोति ता अपि ततो भिन्ना इति तत्राप्ययमेव वृत्तान्त इति अनवस्था ततः-तस्मात् स्वात्मैवास्य-उपकार
कस्य धर्मिणः । अशेषधर्मोपकारिकाः शक्तय इति । यतश्चैवमतः तस्य.. उपकारकस्य धर्मिणः सर्वधर्मोपकारकत्वेन निश्चये सति । किमित्याह-तदु२५ पकार्या अपि-विवक्षितोपकारकोपकार्या अपि धर्मा निश्चिता एव । कुत इत्याह-तनिश्चयनान्तरीयकत्वात्-उपकार्यधर्मनिश्चयनान्तरीयकत्वात् । उपकारकनिश्चयस्य तदपेक्षमस्योपकारकत्वमित्यर्थः । एतत्स्पष्टनायैवाह-न हीत्यादि। न यस्माद् ये भावा यदपेक्षस्थितयः प्रकृत्या ते-भावास्तदनिश्चये-अपेक्षाऽनिश्वये तथा निश्चीयन्ते-तदपेक्षकत्वेन · निश्चीयन्ते नहि । निदर्शनमाह३० स्वस्वामित्ववत् । स्वं च स्वामी च स्वस्वामिनौ, तद्भावः स्वस्वामित्वम् , तद्वत्
१ 'धर्मनिश्चिता' इति क-पाठः । २ 'पतनधर्मणां' इति ध-पाठः । ३ 'वस्थायिकाभिः' इति क-पाठः। ४ 'अपेक्ष्याऽनिश्चये' इति क-पाठः । ऊ-प्रतौ तु पाठाभावः।