________________
अधिकारः]
खोपज्ञव्याख्यामुनिचन्द्रीयविवरणयुतम्
अनेकधर्मके वस्तुन्यन्यतरधर्मनिश्चयात् तदन्यनिश्चयाय प्रमाणान्तरसाफल्यमिति चेत्, न, एकधर्मविशिष्टस्यापि निश्चये सर्वधर्मवत्तया निश्चयात्, प्रमाणान्तरस्य निश्चितमेव विषयीकुर्वतः ५ स्मृतिरूपानतिक्रमात्, एकधर्मद्वारेणापि तद्वतो निश्चयात्मना प्रत्यक्षेण विषयीकरणे सकलधर्मोपकारकशक्तयभिन्नात्मनो निश्चयात् । न ह्यन्य एवान्योपकारको नाम, ततो यदेवास्यैकोपकारकत्वेन निश्चयनं तदेव तदन्योपकारकत्वेनापि । न चासत्युपकार्योपकारकभावे तव्यवस्थाऽतिप्रसङ्गतो युक्ता ।।
(खो० च्या०) पराभिप्रायमाह-अनेकधर्मके वस्तुनि नित्यत्वादिधर्मापेक्षया अन्यतरधर्मनिश्चयाद् यथोदितप्रत्यक्षेण तदन्यनिश्चयाय-धर्मान्तरनिश्चयार्थं प्रमाणान्तरसाफल्यम्-अनुमानादिसाफल्यम् । इति चेत्, एतदाशङ्कयाह-नकेत्यादि । न-नैतदेवम् । कुत इत्याह-एकधर्मविशिष्टस्यापि, वस्तुन इति प्रक्रमः | १५ निश्चये सति किमित्याह-सर्वे च ते धर्माश्च सर्वधर्माः, तेऽस्य वस्तुनो विद्यन्त इति सर्वधर्मवत् तद्भावः सर्वधर्मवत्ता तया निश्चयात् । एवं च प्रमाणेत्यादि । प्रमाणान्तरस्य-अनुमानादेनिश्चितमेव, 'धर्मान्तरम्' इति प्रक्रमः । विषयीकुर्वतः सतः स्मृतिरूपानतिक्रमात् । अनेकप्रमाणवादहानिरिति वर्तते, 'एकधर्मविशिष्टस्यापि निश्चये सर्वधर्मवत्तया निश्चयात्' इति यदुक्तं २० तदुपदर्शयन्नाह-एकधर्मेत्यादि । एकधर्मद्वारेणापि तद्वतः-धर्मवतो वस्तुनो निश्चयात्मना प्रत्यक्षेण सविकल्पकेन विषयीकरणे सति । किमित्याहसकलाश्च ते धर्माश्च तेषामुपकारिकाश्च ताः शक्तयश्चेति विग्रहः, ताभ्योऽभिन्नश्वासावात्मा चेति समासस्तस्य निश्चयात् कारणात् , सर्वधर्मवत्तया निश्चयः । एतत्समर्थनार्यवाह-न हीत्यादि । न यस्मादन्य एव, धर्मी वस्त्वात्मा २५ इति प्रक्रमः । अन्योपकारको नाम-धर्मान्तरोपकारको नाम । किं तर्हि ? । स. एव, धर्मिण एकत्वादिति हृदयम् । ततो यदेवास्य-वस्तुनो धर्मिण एकोपकारकत्वेन अन्यतरधर्मापेक्षया निश्चयनं तदेव अन्योपकारकत्वेन-धर्मान्तरोपकारकत्वेनापि निश्चयनम् , अन्यथा तदेकत्वहानिरिति गर्भः । न चासत्युपकार्योपकारकभावे तव्यवस्था-वस्तुनो धर्मधर्मिव्यवस्था अतिप्रसङ्गतः३० कारणाद् युक्ता। अतिप्रसङ्गश्च तद्वद् धर्मान्तराद्यपेक्षयाऽपि धादिभावप्रसङ्गः, निमित्ताभावाविशेषादिति ॥
१ 'द्वारेण तद्वतो' इति क-पाठः। २ 'यथोचितप्रत्यक्षेण' इति घ-पाठः। ३ 'कुर्वतः स्मृतिः' इति अ-पाठः। ४ अस्सिनेव पृष्ठे । ५ 'दर्शनायाह' इति क-पाठः ।