________________
१४२
अनेकान्तजयपताकाख्यं प्रकरणम् [तृतीयः
(मूलम् ) पुरुषमर्थानामात्मभेदः, नैरात्म्यप्रसङ्गात्, आत्मस्थितेरभावात्,
तस्मादयमशब्दसंयोजनमेवार्थ पश्यति, दर्शनादिति ॥ ५ किश्च विकल्पात्मकत्वेऽस्य निश्चयात्मकमिदमित्यनेकप्रमाणवादहानिः, तेनैव वस्तुनो निश्चयात्, नित्यत्वादौ भ्रान्त्यनुपपत्तेः॥ .
(स्वो० व्या०) न हि पुरुषं पुरुषं प्रति अर्थानामात्मभेद:-स्वभावभेदो भवति । कुत इत्याह-नैरात्म्यप्रसङ्गात् । अयमभिप्रायः-पुरुषेच्छानामानन्त्यात् तदनुवर्तिनश्च ३० यद्यर्थाः स्युस्तदा तेषां नैःस्खाभाव्यमेव स्यात्, एकस्य अनेकस्वभावाभावात् । स्यान्मतम्-भवतु सामायिकस्वभावस्याभावः, अन्योऽपि तद्व्यतिरिक्तो वस्तुसत्वभावोऽस्यास्त्येव, अतो नैरात्म्यप्रसङ्गो न भविष्यतीत्याह-आत्मस्थितेरभावादिति । उपलब्धिलक्षणप्राप्तस्य तद्व्यतिरेकेणान्यस्य स्वभावस्यानुपलम्भादित्यभि
प्रायः । अथवा नन्वेवं सति बहुतरस्वभावसिद्धिरेवः तत् किमुच्यते नैरात्म्यप्रसङ्गा१५ दिति ? । आह-आत्मस्थितेरभावात् । पुरुषाणां स्वाभिप्रायवशेनैकत्र विरुद्धस्यापि
खभावस्याभ्युपगमसम्भवात् , न चैकस्य विरुद्धानेकस्वभावो युक्त इति मन्यते । तदेवं स्मृत्यसम्भवेन निर्विकल्पता प्रतिपाद्योपसंहरन्नाह-तस्मादित्यादि । यस्मादेवमनन्तरोक्तेन प्रकारेण शब्दविशेषस्मृतिर्न सम्भवति, तस्मादयं-प्रतिपत्ता अशब्दसंयोजनमेवार्थं पश्यति । अविद्यमानं शब्दसंयोजनं यस्यार्थस्येति विग्रहः । कुत २० इत्याह-दर्शनात् । अयमस्यार्थः-यस्मादयं प्रतिपत्ताऽर्थमुपलभते तस्मादशब्दसंयोजनमेवार्थ पश्यति इति निश्चीयते ॥
किश्चेत्यादि । किञ्चायमपरो दोषः-विकल्पात्मकत्वेऽस्य-प्रत्यक्षस्य निश्चयात्मकमिदमिति-एवं विकल्पात्मकत्वेन हेतुना । यदि नामैवं ततः किमित्याह
अनेकप्रमाणवादहानिः-प्रत्यक्षा-ऽनुमाना-ऽऽगमप्रमाणवादहानिः। कुत इत्याह२५ तेनैव-निश्चयात्मना प्रत्यक्षेण वस्तुनो निश्चयात् कारणात् । यथोक्तनिश्चयेऽपि किमित्याह-नित्यत्वादी धर्मे भ्रान्त्यनुपपत्तेः इति ॥
(विवरणम् ) . (१३) उपलब्धिलक्षणप्राप्तस्य तद्व्यतिरेकेणान्यस्य स्वभावस्यानुपल
म्भादिति । विशिष्टवस्त्वन्तरेण न कश्चिद् धर्मभूतः स्वभाव उपलब्धिलक्षणप्राप्त ३० उपलब्ध्यपेक्षया प्रवर्तते । [स्वामीति च ध्वनिरस्य वस्यापेक्ष्येति भावः ॥]
१ अर्थानां स्वभावमेदः । आत्मभेदो भवति' इति उ-पाठः । २ 'उपलक्षितलक्षण.' इति कपाठः । ३ 'बहुशः खभाव.' इति ङ-पाठः। ४ 'तस्मादेव' इति क-पाठः। ५ किमयं पाठ उपपलः १४४ तमे पृष्ठे १४५ तमे वा? ।