________________
अधिकारः] खोपशव्याख्यामुनिचन्द्रीयविवरणयुतम् १४१
(मूलम् ) प्रयोधयत्यान्तरं संस्कारम् , तेन स्मृतिः, नार्थदर्शनादिति चेत्, न, तत्सम्बन्धस्याखाभाविकत्वात् समयादर्शनेऽभावात् , पुरुषेच्छातः अर्थानां स्वभावापरावृत्तेन समयकालोत्पत्तिः, खभावस्य परावृत्तौ ५ च तस्य तादात्म्यात्, अन्यस्यासमयदर्शिनोऽपि स्यात् । न हि प्रति
(खो० व्या०) पतन्-अभिमुखीभवन् । कोऽसावित्याह-अर्थ:-रूपादिको विषयः । किं करोति? । प्रबोधयति-कार्यनिर्वर्तनं प्रत्यनुकूलयति। के 'प्रबोधयति ? । आन्तरं संस्कारशब्दस्मृतिवासनाख्यं तेन-अर्थाभिपातमात्रेण सा स्मृतिः । तेन वा कारणेन १० स्मृतिः, नार्थदर्शनात् । इति चेत्, तथा च नान्ध्यं जगतः, विकल्पकत्वं चेन्द्रियज्ञानस्योपपन्नमिति मन्यते । अर्थाभिपातस्य स्मृतिजनकत्वं निराकुर्वन्नाह-न, तत्सम्बन्धस्येत्यादि । यदेतदुक्तम्-'अभिपतन्नेवार्थः प्रबोधयत्यान्तरं संस्कारम्' इति तन्न । कुत इत्याह-तत्सम्बन्धस्य तयोः-शब्दार्थयोः सम्बन्धस्तत्सम्बन्धस्तस्य अस्वाभाविकत्वात्, पौरुषेयत्वादित्यर्थः । कथमवसेयमित्याह-समयादर्शने १५ सङ्केतस्याग्रहणे सति अभावात् , स्मृतिसंस्कारप्रबोधस्य, अर्थप्रतीतेवेति वाक्यशेषः । एतदुक्तं भवति-ययोः स्वाभाविकः सम्बन्धो न तयोः समयं प्रति काचिदपेक्षा, यथा चक्षू-रूपयोः, विपर्ययस्त्वत्र इति नाकृतिमत्त्वं सम्बन्धस्येति । तत्रैतत् स्यात् समयादुत्तरकालं स्वाभाविकः शब्दार्थसम्बन्धः, न पूर्वम् , अतः कृतसमयस्याभिपतन्नेवार्थः प्रबोधयत्यान्तरं संस्कारमित्याह-पुरुषेच्छातः सकाशात् अर्थानां स्वभावा-२० परावृत्तेः-पूर्वस्वभावपरित्यागेन विशिष्टस्वभावान्तरानुत्पत्तेः कारणात् न समयकालोत्पत्तिः, न समयकाले स्वाभाविकत्वेन शब्दार्थसम्बन्धस्य प्रादुर्भाव इत्यर्थः । दोषान्तराभिधित्सयाऽभ्युपगम्यापि स्वभावान्तरपरावृत्तिमाह-खभावस्य परावृत्ती च सत्यां अन्यस्यासमयदर्शिनोऽपि स्यात् स्मृतिसंस्कारप्रबोधः, अर्थप्रतीतिवेति शेषः । न केवलं समयदर्शिन इत्यपि शब्दार्थः । कस्मादित्याह-तस्य २५ तादात्म्यात् । से स्मृतिसंस्कारप्रबोधकोऽर्थप्रतीतिहेतुको वा आत्मा-स्वभावोऽस्वेति तदात्मा, तदात्मनो भावस्तादात्म्यं ब्राह्मणादेराकृतिगणत्वात् ध्यञ् । अथोच्यतेसमयदर्शिनं प्रति स्वभावः, न पुनरदृष्टसमयं प्रति, इत्यत आह-नं हीत्यादि ।
१ 'प्रयोजयति' इति क-पाठः। २ १४० तमे पृष्ठे १४१ तमे च। ३ “भाविकशब्दा०' इति क-पाठः। ४ 'सम्यग्दर्शिन' इति क-पाठः । ५ 'न स्मृति०' इति क-पाठः । ६ 'पुनदृष्टः' इति ङ-पाठोऽशुद्धः।।