________________
अनेकान्तजयपताकाख्यं प्रकरणम् [तृतीयः
(मूलम्) अस्त्वेवमपि को दोष इति चेत्, निवृत्तेदानीमिन्द्रियज्ञानवार्ता, अभिधानविशेषस्मृतेरयोगात् । सति ह्यर्थदर्शनेऽर्थसन्निधौ दृष्टे शब्दे ५ ततः स्मृतिः स्यात्, अग्निधूमवत् । न चायमशब्दमर्थं पश्यति, अपश्यन् न शब्दविशेषमनुस्मरति, अननुस्मरन् न योजयति, अयोजयन् न प्रत्येति, इत्यायातमान्ध्यमशेषस्य जगतः । अभिपतन्नेवार्थः
(स्वो० व्या०) विज्ञानैर्व्यवसीयन्त इति प्राप्तम् । व्यवसीयन्ते-प्रतीयन्त इत्यर्थः । कीदृशा २० इत्याह-स्वाभिधानेत्यादि । स्वाभिधानमेव विशेषणम् , व्यवच्छेदकत्वात् तस्मिन्नपेक्षा
येषामर्थानामिति विग्रहः॥ __ अस्तु-भवत्वेतत् , एवमपि को दोषः। इति चेत् ,एतदाशङ्क्याह-निवृत्तेत्यादि । निवृत्ता इदानीमिन्द्रियविज्ञानवार्ता । कस्मान्निवृत्तेत्याह-अभिधान
विशेषेत्यादि । अभिधानविशेषो योऽर्थस्तदानीं ग्राह्यस्तस्य यो वाचकः-शब्दस्तत्र १५ स्मृतिस्तस्याः स्मृतेरयोगात् । कथमयोग इत्याह-सति ह्यर्थदर्शन इत्यादि । यस्माद् व्यवहारकाले सत्यभिधेयार्थदर्शने तदभिधायिन्यभिधाने स्मरणं भवति । तत्रापि न सर्वस्य शब्दस्पेत्याह-अर्थसन्निधौ सङ्केतकाले दृष्टे शब्द इति तत इत्यर्थदर्शनात् स्मृतिः स्यात्, नान्यथा । निदर्शनमाह-अग्निधूमवत् । यथा
अग्नि-धूमयोः सम्बन्धज्ञस्याग्निदर्शने धूमे स्मृतिर्भवति, धूमदर्शने चाग्नौ स्मृतिः, तद्वदत्रा२० प्यवसेयम् । स्यान्मतम्-अर्थं तर्हि दृष्ट्वा शब्दं स्मरिष्यतीत्याह-न चायमित्यादि ।
न खल्वयं-सविकल्पकप्रत्यक्षवादी शब्दरहितमर्थं पश्यति, 'स्वाभिधानविशेषणापेक्षा एवार्था विज्ञानैर्व्यवसीयन्ते” इति नियमात् । ततः को दोष इत्याह-अपश्यन् न शब्द विशेषमनुस्मरति, नियमेनेति शेषः, यस्मादर्थदर्शनं शब्दविशेषस्मृतेर्हेतुः सा च तेन व्याप्ता कारणं विवर्तमानं कार्य निवर्तयति । भवतु नाम२५ एवम् । ततः को दोष इत्याह-अननुस्मरन् न योजयति। अत्रापि शब्दविशेषानुस्मरणं स्मृतियोजनायाः कारणम् , तदभावात् कार्याभावः । अत्रापि को दोषः? । इति चेत्, आह-अयोजयन् न प्रत्येति । योजनं ह्यर्थप्रतीतेः कारणमित्यत्रापि कारणानुपलब्धिरेव इति तस्मादायातमान्ध्यमशेषस्य जगतः । न चेष्यते,
तस्मान्नेन्द्रियज्ञाने शब्दकल्पना सम्भवतीति । अथापि स्यान्नार्थदर्शनात् स्मृतिः । किं ३० तर्हि ? । योग्यदेशावस्थितादेवार्थात् स्मृतिरित्याह-अभिपतन्नेवेत्यादि । अभि
१ 'अपश्यश्च न' इति ग-पाठः। २ 'चेत् तदाशयाह' इति ङ-पाठः। ३ 'विशेष इत्यादि इति क-घ-च-पाठः । ४ प्रेक्ष्यतां १३९ तमं पृष्ठम् । ५ 'अपश्यंश्च न' इति क-पाठः । ६ कारणं' इति क-पाठः।