________________
अधिकारः] खोपशव्याख्यामुनिचन्द्रीयविवरणयुतम्
(मूलम्) विकल्पो रूपायेव गृह्णातीति शक्यं कल्पयितुम् , तस्यातीताद्यर्थाभिधायकत्वत्यागतो वर्तमानार्थयोजनेन प्रवृत्तिप्राप्तः । नापि वर्तमानार्थाभिधानसंसर्गी तदाऽपरो विकल्पः समस्ति, द्वयोर्विक-५ ल्पयोः सममप्रवृत्तेः, अविगानेन तथाऽनुभवाभावात् । अतोऽत्र प्रत्युत्पन्नविषयग्रहणकाले दृश्यमानार्थनामाऽग्रहः स्पष्ट एव, तन्नामग्रहणसम्भूता च कल्पना तन्नामग्रहाभावे कल्पनाऽभावः । इति सिद्धमविकल्पकमिन्द्रियज्ञानम् , अतोऽन्य एव च विकल्पः। इति न क्वचिदनयोरैक्यम्, न्यायानुपपत्तेः, भिन्नजातीयत्वादिति । इतश्चैतदे-१० वम् , अन्यथा स्वाभिधानविशेषणापेक्षा एवार्था विज्ञानैर्व्यवसीयन्त इति प्राप्तम् ॥
(स्वो० व्या०) अतीतायर्थगतो रूपायेव गृह्णाति, वार्तमानिकमिति प्रक्रमः, इति-एवं शक्यं कल्पयितुम् । कुतो न शक्यमित्याह-तस्येत्यादि । तस्य-अतीताद्यर्थगत- ३५ विकल्पस्य अतीताद्यभिधायकत्वत्यागत:-अतीतादिवाचकशब्दादित्यागतः । वर्तमानार्थयोजनेनेति । वर्तमानोऽर्थः-अभिधेयो यस्य, अभिधायकस्येति प्रक्रमः, स वर्तमानार्थस्तद्योजनेन । प्रवृत्तिप्राप्तः कारणात् । नापीत्यादिना । नापि वर्तमानार्थाभिधानेन संसृज्यते लच्छीलश्चेति विग्रहः तदा-तस्मिन्नेव कालेऽपरो विकल्पः समस्ति-विद्यते । कुत इत्याह-योर्विकल्पयोः समं-युगपत् २० अप्रवृत्तेः कारणात् । अप्रवृत्तिश्च अविगानेन-अविप्रतिपत्त्या तथा-तेन समकालभावेन अनुभवाभावात् । अत इत्यादि । अतः स्थितमेतत्-प्रत्युत्पन्नविषयग्रहणकाले दृश्यमानार्थनामाऽग्रहः स्पष्ट एव । यदि नामैवं ततः किमित्याह-तन्नामग्रहणेन सम्भूता तन्नामग्रहणसम्भूता एवम्भूता च कल्पना । ततः किमित्याह-तन्नामग्रहाभावे कल्पनाऽभाव । इति कृत्वा २५ सिद्धमविकल्पकभिन्द्रियज्ञानम् , अतः-इन्द्रियज्ञानात् अन्य एव च विकल्पः । इति-एवं न कचित्-सजातीयादौ अनयोः-दर्शन-विकल्पयोः ऐक्यम्-एकभावो न्यायानुपपत्तेः, इयं चोक्तैव । सर्वगर्भ त्वाह-भिन्नजातीयस्वात् सामान्येनैव दर्शन-विकल्पयोः इति । इतश्चैतदेवम् , अङ्गीकर्तव्यमिति शेषः । अन्यथा-एवमनभ्युपगमे स्वाभिधानविशेषणापेक्षा एवार्थी ३०
१ ततोऽन्य' इति क-पाठः। २ 'शक्तुमित्याह' इति हु-पाठः। ३ 'योजनेनेत्यादि वर्त' इति क-पाठः। ४ 'ग्रहणाभावे विकल्पना' इति क-पाठः ।