________________
१३८
अनेकान्तजयपताकाख्यं प्रकरणम्
तृतीयः
विकल्पेनादर्शनात् , दर्शनेन चाविकल्पनात्,तयोरसहवृत्तेरुपादानादिभावात् । इत्येकमेवेदमिति ॥ ५ स्यादेतत् सविकल्पाविकल्पयोर्विज्ञानयोः खभावभेदेऽपि प्रतिभासभेदेन युगपदवृत्तेर्विमूढः प्रतिपत्ता तमपश्यन्नक्यं व्यवस्थति, न तु तथा तत्, अन्यत्रानयोर्योगपद्येऽपि भेददर्शनात्, अतीताद्यर्थगतविकल्पेनापि इन्द्रियज्ञानतो रूपादिग्रहणसिद्धेः । न च स
(स्त्रो० व्या०) ६० निश्चयात्मकः । कुत इत्याह-विकल्पेनादर्शनात् । कान्तादिविकल्पे तथा
ऽनुभवसिद्धमेतत् , दर्शनेन चाविकल्पनात् अनभिप्रेतभूतृणादिदर्शने एतदपि सिद्धमेव । तथा तयोः-दर्शनविकल्पयोः असहवृत्तेः, युगपदवृत्तेरित्यर्थः । कुत इत्याह-उपादानादिभावात्, अवग्रहादिक्रमेणोपादानोपादेयभावादित्यर्थः ।
इति-एवम् एकमेवेदम्-अधिकृतं विज्ञानमिति ॥ १५ पराभिप्रायमाह स्यादेतदित्यादिना । स्यादेतत्-अथैवं मन्यसे सविकल्पाविकल्पयोर्विज्ञानयोः सामान्येन खभावभेदेऽपि सति प्रतिभासभेदेन हेतुना युगपदवृत्तेः कारणात् विमूढः प्रतिपत्ता पुरुषः तमपश्यन् स्वभावभेदं ऐक्यं व्यवस्यति तयोः सविकल्पाविकल्पयोः, न तु तथा तत्-न पुनस्तदैक्यमेव । कुत इत्याह-अन्यत्र जातिभेदे अनयोः-सविकल्पाविकल्पयोः २० योगपद्येऽपि सति भेददर्शनात् । एतदेवाह-अतीताद्यर्थगतविकल्पेनापि प्रमात्रा इन्द्रियज्ञानतः-इन्द्रियज्ञानेन रूपादिग्रहणसिद्धेः । कस्येत्याहअन्यस्याश्रुतत्वात् तस्यैव प्रमातुः । न चेत्यादि । न च स विकल्प:
(विवरणम्) (१०-११) कान्तादिविकल्पे तथाऽनुभवसिद्धमेतदिति । न हि कामुकादेवि२५ रहादिपीडितस्य कान्तापरोक्षतायां दृढावेशेन कान्तां विकल्पयतोऽपि साक्षात् तदर्शनमुपलभ्यते । एवमत्रापि ज्ञाने विकल्पात्मकतायां केवलायां न साक्षादहेदर्शनमुपपद्यत इति ॥
(११) दर्शनेन चाविकल्पनादिति । पथि गच्छतो हि पुरुषस्यावग्रहरूपदर्शनसद्भावेऽपि अनभिमततृणादिषु न तेंद्विषयोपात्तो विकल्पः प्रवर्तते, अतो विकल्प३० मात्र-दर्शनमात्राभ्यामन्यदेव किञ्चिदहिरहिरित्याद्युल्लेखवत् ज्ञानमिति भावः ॥
१ 'इत्यत एकमेवेद०' इति क-पाठः। २ 'सति निदर्शनात्' इति क-पाठः। ३ 'कल्पे तथा तथा०' इति च-पाठः। ४ 'ग्रहदर्शन०' इति क-पाठः। ५'तद्विषयो यतो विकल्पः वर्दते' इति च-पाठः। ६ 'भावम्' इति क-पाठः ।