________________
अधिकारः] खोपजन्याख्यामुनिचन्द्रीयविवरणयुतम्
१३७ (मूलम्) न चैतदभ्युपगममात्रम् , तावत् सङ्घातजस्यैव तथाऽर्थग्रहणवभावत्वात् , अविगानतस्तथाऽनुभवसिद्धेः, एवमेव व्यवहारदर्शनादिति । तथाहि-एतदिन्द्रियद्वारानुसार्येव विज्ञानमाविष्टाभिलापम् । 'अहिरहिः' इति योजकं दर्शकं च धारावाहि तथा व्यवहारबीजं प्रतिप्राण्यनुभवसिद्धमेव । 'न चेहान्यदेव दर्शनम् , अन्य एव च विकल्पः,
(खो० व्या०) न चेत्यादि । न च एतत्-'शब्दोऽपि तद्योग्यद्रव्येभ्यः' इति यदुक्तमेतत् अभ्युपगममात्रम् , अपि तु सोपपत्तिकमित्यभिप्रायः। कुत इत्याह-तावदित्यादि । तावत् १० सङ्घातजस्यैव-रूपालोकमनस्कारचक्षुःशब्दसङ्घातजस्यैव, विकल्पज्ञानस्येति प्रक्रमः, तथा-तेन 'निश्चितप्रकारेण अर्थग्रहणखभावत्वात् । एतच्चैवमर्थग्रहणस्वभावत्वम् अविगानतः-अविगानेन तथा-तेन प्रकारेण अनुभवसिद्धेः । अनुभवसिद्धिश्च एवमेव व्यवहारदर्शनादिति। एतदेव निदर्शनेनाह-तथाहीत्यादि । तथाहीत्युपप्रदर्शने । एतत्-वक्ष्यमाणम् इन्द्रियद्वारानुसार्येव, तद्व्यापाराभावे- १५ ऽभावात् । विज्ञानम् । किंविशिष्टमित्याह-आविष्टाभिलापं-प्रविष्टशब्दम् , शब्दसम्मिश्रमित्यर्थः । किंविशिष्टमित्याह--अहिरहिः-सर्पः सर्प इति-एवं योजकं शब्दस्य, दर्शकं च अर्थस्पेन्द्रियव्यापारेण धारावाहि तथा सन्तानप्रवृत्तम् । एतदेव विशिष्यते व्यवहारबीजमिति । ततस्तथाविधव्यवहारसिद्धेः प्रतिप्राण्यनुभवसिद्धमेव-प्राणिनं प्राणिनं प्रति तत्तद्रष्ट्रपेक्षया प्रतिप्राणि प्रतिग्राम- २० भिक्षालाभवत् , अनुभवसिद्धमेव नेह कस्यचिद् विगानमिति । न चेहेत्यादि । न चेह-प्रस्तुते ज्ञाने अन्यदेव दर्शनं निर्विकल्पकम् अन्य एव च विकल्पो
(विवरणम्) (२०-२१) प्रतिग्रामभिक्षालाभवदिति । प्रतिशब्देनाव्ययीभावसमासः । निदर्शनमेतत् ।
(२२, पृ. १३८,१०) अन्यदेव दर्शनं निर्विकल्पकमन्य एव विकल्पो निश्चयात्मक इति । परो हि अहिरहिरिति विकल्पकाले एककं तावदहिग्राहकं निर्विकल्पक चाक्षुषं प्रत्यक्षमिच्छति अन्यं च शब्दोल्लेखभावं विकल्पमिति । एतत्प्रतिषेधायोवाच' सूरिः-'ने चेहान्यदेव दर्शनम्' इत्यादि ।
१ 'न चेदान्यदेव' इति क-पाठः। २ एव विकल्पः' इति क-पाठः । ३ १३६तमे पृष्ठे । ४ 'निश्चयप्रकारेण' इति ङ-पाठः। ५ 'निर्विकल्पं अन्य' इति उ-पाठः। ६ 'समासनिदर्शन' इति च-पाठः । ७ 'एकैकं' इति च-पाठः। ८ निर्विकल्पकल्पकं चाक्षुषं इति च-पाठः, 'निर्वि. कल्पकल्पचाक्षुषं' इति तु ख-पाठः । ९ अस्मिन्नेव पृष्ठे । १० “निर्वहान्यदेव' इति क-पाठः ।
२५
अनेकान्त० १८