________________
१३६
अनेकान्वजयपताकाख्यं प्रकरणम् [मृतीयः
(मूलम्) व्यभिचारात् । न ते, अर्थादन्यतो भावादिति चेत्, शब्दोऽपि तद्योग्यद्रव्येभ्य इति समानः समाधिः॥
(स्वो० व्या०) इति । एतदाशयाह-न, बोधनियतार्थतादिभिः, 'आदि'शब्दात् 'कुशलतादिपरिग्रहः, व्यभिचारात् अर्थसामर्थ्यजन्यत्वानुपपत्तेरिति । न 'ते-बोधादयोऽर्थादन्यतः-समनन्तरादेर्भावात् । इति चेत्, एतदाशङ्याह-शब्दोऽपि तद्योग्यद्रव्येभ्यः-शब्दप्रायोग्यद्रव्येभ्योऽन्येभ्य एव इति-एवं समान:-तुल्यः १० समाधिः -परिहारः । अनेन च "अयमर्थासंस्पर्शी संवेदनधर्मः, अर्थेषु तन्नियोजनात्" इत्यपि प्रत्युक्तम् , अनभ्युपगमादिति ॥
(विवरणम्) (६-७) बोधनियतार्थादिभिरादिशब्दात् कुशलतादिपरिग्रह इति । यदि ह्यर्थधर्मातिरिक्तशब्दसद्भावात् सविकल्पकज्ञानमप्रमाणम्, एवं तर्हि बोधरूपताया १५ ज्ञानस्वरूपभूतायाः तथानियतार्थतायाः-प्रतिनियतविषयरूपतायाः कुशलतारूपताया
अकुशलरूपतायाश्च शुद्धाशुद्धवासनारूपताया ज्ञानगताया एव सर्वथाऽर्थेष्वविद्यमानाया निर्विकल्पिकज्ञानेऽपि भवदभिगमेनाल्लिब्धात्मलाभे सद्भावात् कथं प्रमाणता तस्य स्यादिति ॥
(८) समनन्तरादेर्भावादिति । समनन्तराञ्चोपादानरूपात् प्राच्यबोधक्षण२० लक्षणात् सकाशाद् बोधरूपताया भावः ! 'आदि' शब्दाच्चक्षुरादेरिन्द्रियान्नियतार्थताया प्राग्वासनातश्च कुशलाकुशलताया इति ॥
(१०) अयमर्थासंस्पशी संवेदनधर्मोऽर्थेषु तन्नियोजनादिति । अयं विकल्पः संवेदनधर्म:-ज्ञानप्रकृतिरांसंस्पर्शी अर्थमनालम्ब्येत्यत्र वर्तते । कुत इत्याह-अर्थेषु
घटादिषु सर्वथा शब्दस्वभावरहितेषु तस्य-शब्दस्य नियोजनात्-अध्यारोपणात् ॥ २५ (११) इत्यपि प्रत्युक्तमनभ्युपगमादिति । न हि जैनैरित्थमभ्युपगम्यते यदुतार्थे दृष्टिः पश्चात् तद्वाचको ध्वनिस्तत्रारोप्यते, किन्तु तथाविधक्षयोपशमवशात् शब्दारूषितमेव तज्ज्ञानं सविकल्पं प्रवर्तते, न तु देवदत्तकटन्यायेन शब्दा अर्थेष्वध्यारोप्यन्ते, प्रदीपवत् , तेषां विच्छिन्नस्वभावानामेवार्थवाचकखभावत्वादिति ॥
१ 'कुशलादिपरि०' इति ङ-पाठः। २ 'तेन बोधा.' इति ङ-पाठः । ३ 'यदि ह्यधर्माति.' इति च-पाठः। ४ 'यथा नियता.' इति क-पाठः। ५ 'रूपाया ज्ञान.' इति क-पाठः । ६ 'ज्ञानताया एव' इति ख-पाठः । ७ 'धम्मो ज्ञान.' इति च-पाठः । ८ 'लम्ब्योत्पन्नो वर्तते' इति ख-च-पाटः । ९ 'भाववदिति' इति ख-पाठः ।