________________
अधिकारः]
खोपज्ञव्याख्यामुनिचन्द्रीयविवरणयुतम्
१३५
विकल्पकत्वादिति चेत्, अभ्रान्तं तर्हि कीगिति वाच्यम् । निर्विकल्पकमिति चेत्, न, तस्यापि निर्विकल्पकत्वेन भ्रान्ततापत्तेः। अर्थसामर्थ्यजन्यत्वादनापत्तिरिति चेत्, न, अस्य विकल्पकेऽपि तुल्यत्वात् । कचिद् व्यभिचारदर्शनादतुल्यत्वमिति चेत्, न, तस्य निर्विकल्पकेपि भावात् । न तन्नः प्रमाणं तदाभासत्वादिति चेत्, विकल्पकेऽपि तुल्यः परिहारः। अर्थधर्मातिरिक्तशब्दभावतोऽस्यार्थसामर्थ्यजन्यत्वानुपपत्तिरिति चेत्, न, बोधनियतार्थतादिभि
(स्वो० व्या०) सामान्येन भिक्षूपासकादीनामपि उपजायमानत्वात् कारणात् । भ्रान्तमेतत्अधिकृतज्ञानम् । कुत इत्याह-विकल्पकत्वात् । इति चेत्, एतदाशङ्कयाहअभ्रान्तं तर्हि कीगिति एतद् वाच्यम् । निर्विकल्पकमिति चेत् अभ्रान्तम् , एतदाशङ्कयाह-न, तस्यापि-निर्विकल्पकस्य निर्विकल्पकत्वेन हेतुना भ्रान्ततापत्तेः, खरूपमेव भ्रान्तिनिबन्धनम् , एतचास्यापि विद्यत एवेत्यभि- १५ प्रायः। अथेसामयजन्यत्वाद् निर्विकल्पकस्य अनापत्तिः । इति चेत्. भ्रान्तताया इति प्रक्रमः, एतदाशयाह-न, अस्य- अर्थसामर्थ्यजन्यत्वस्य विकल्पकेपि तुल्यत्वात् । एतदप्यर्थसामर्थ्यजन्यमेवेत्यर्थः । कचित्-छात्रमनोराज्यविकल्पादौ व्यभिचारदर्शनात् कारणात् अतुल्यम् (?) । इति चेत्, न ह्यसावर्थसामर्थ्यजन्य इति । एतदाशक्याह-न, तस्य कचिद् व्यभिचारस्य निर्वि- २० कल्पकेऽपि भावात् । न हि तदपि सर्वमर्थसामर्थ्यजन्यम् । न तत्-अर्थसामर्थ्याजन्यं नः-अस्माकं प्रमाणम् । कुत इत्याह-तदाभासत्वात्-प्रमाणाभासत्वात् । इति चेत्, एतदाशङ्कयाह-विकल्पकेऽपि तुल्यः परिहारः अर्थसामयोजन्यं विकल्पकमपि न नः प्रमाणम् , तदाभासत्वादेवेति । अर्थधर्मातिरिक्तश्चासौ शब्दश्चेति विग्रहः, तदभावतः कारणात् अस्य-विकल्पकस्य अथे-२५ सामर्थ्यजन्यत्वानुपपत्तिः-असम्भव एव । इति चेत्, उक्तं च धर्मकीर्तिना "न ह्यर्थे शब्दाः सन्ति तदात्मानो वा येन तस्मिन् प्रतिभासेरन्"
(विवरणम् ) अथ 'सामान्यविशेषाधिकारे किञ्चिच्चय॑ते । (२७) न ह्यर्थे शब्दाः सन्ति तदात्मानो वेति । न-नैव हिः-यस्मादर्थे कुण्डवत् आधारभूते शब्दा ३० आधेयरूपतया बदरकल्पा विद्यन्ते नापि तदात्मानः तत्स्वरूपा घटात्मस्वरूपवत् ॥
१ अस्य सविकल्पके' इति क-पाठः। २ 'कोदगिति वाच्यम्' इति क-पाठः । ३ 'अभ्रान्तमित्येतदा०' इति कु-पाठः । ४ 'जन्यं तदनर्थसामथ्यो.' इति ङ-पाठः। ५ 'जनं नः' इति क-पाठः । ६ 'तस्मिन् प्रतिभासमाने प्रतिभासेरन्' इति क-पाठः । ७ 'आधेयवद् बदर०' इति क-पाठः ।