________________
तृतीयोऽधिकारः।
यचोक्तम्-'एतेन सामान्यविशेषरूपमपि प्रतिक्षिप्तमवगन्तव्यम्' इत्यादि तदप्ययुक्तम् , सामान्यविशेषरूपस्य वस्तुनोऽनुभवसिद्धत्वात्।तथाहि-घटादिषु घटो घट इति सामान्याकारा बुद्धिरुत्प५ द्यते, मार्तिकस्तानो राजत इति विशेषाकारा च, पटादिर्वा न भवतीति । न चार्थसद्भावोऽर्थसद्भावादेव निश्चीयते, सर्वसत्त्वानां सर्वज्ञत्वप्रसङ्गात्, सर्वार्थानामेव सद्भावस्याविशेषात् । किं तर्हि ? । अर्थज्ञानसद्भावात् । ज्ञानं च सामान्यविशेषाकारमेवोपजायत इति,
अतोऽनुभवसिद्धत्वात् सामान्यविशेषरूपं वस्त्विति ॥ १० न चैतद् विज्ञानं भ्रान्तमिति युज्यते, घटादिसन्निधावविकलतदन्यकारणानां सर्वेषामेवाविशेषेणोपजायमानत्वात् । भ्रान्तमेतत् ,
(स्वो० व्या०) अधिकारान्तरमधिकृत्याह यचोक्तमित्यादिना । यच्चोक्तं' पूर्वपक्षग्रन्थे-एतेन सामान्यविशेषरूपमपि प्रतिक्षिप्तमवगन्तव्यमित्यादि, तदप्ययुक्तम्। १५ कुत इत्याह-सामान्यविशेषरूपस्य वस्तुनोऽनुभवसिद्धत्वात् । एतदेवाह
तथाहीत्यादिना । तथाहि घटादिषु पदार्थेषु घटो घट इति-एवं सामान्याकारा बुद्धिरुत्पद्यते तथा मार्तिकः-मृदादिनिवृत्तो मार्तिकः, ताम्रस्ताम्रविकारस्ताम्रः, रजतविकारो राजतः, इति विशेषाकारा च बुद्धिरुत्पद्यते
पटादिर्वा न भवतीति-एवम् । इयं च वस्तुतत्त्वव्यवस्थानिबन्धनमित्यधिकृत्याह२० न चेत्यादि । न च अर्थसद्भावोऽर्थसद्भावादेव कारणात् निश्चीयते। कुत इत्याह-सर्वसत्त्वानां सर्वज्ञत्वप्रसङ्गात् । प्रसङ्गश्च सर्वार्थानामेव भवनोदरवर्तिनां सद्भावस्थाविशेषात् । किं तर्हि ? । अर्थज्ञानसद्भावाद् अर्थसद्भावो निश्चीयते । यदि नामैवं ततः किमित्याह-ज्ञानं च सामान्यविशेषाकारमेवोपजायत इति निदर्शितम् । अतोऽनुभवसिद्धत्वात् कारणात् २५ सामान्यविशेषरूपं वस्त्विति ॥ __न चेत्यादि । न च एतद् विज्ञानम्-अनन्तरोदितंभ्रान्तमिति युज्यते। कुत इत्याह-घटादिसन्निधौ सति अविकलतदन्यकारणानाम् , सम्पूर्णालोकादिकारणानामित्यर्थः । सर्वेषामेव, प्रमातृणामिति सामर्थ्यगम्यम् , अविशेषेण१-२ २०तमे पृष्ठे । ३ 'ताम्रविकारस्तानः' इति ऊ-पाठः । ४ 'बन्धनमधिः' इति क-पाठः ।