________________
अधिकारः] खोपशव्याख्यामुनिचन्द्रीयविवरणयुत्तम् १९५
(मूलम्) तदन्यकार्याणामपि, तत्तथातयाविरोधादिति । अत्रोच्यते-एकान्तवादिन एवायं दोषः, नानेकान्तवादिनः, तस्य त्यचित्रमेवैकम्, न चानेककार्यजननैकस्वभावतां विहाय ततोऽनेकं भवति, अनेक- ५ कार्यजनने च नाचित्रमेकत्वम्, तद्भावेऽपि कात्स्येनैकेन तद्रहात् तदपरावसायग्रहणप्रसङ्गः, तस्य तज्जननखतत्त्वस्यान्यथाग्रहणायोगात्, तत्सावधिकत्वात् न निरवधिकं ग्रहणं तद् ग्रहणमिति
(स्वो० व्या०) भावाभेदेऽपि तदवसायभेदे-एकापरप्रमात्रवसायभेदे तदेकखभावतापत्तिः १० तस्य-वस्तुन एकखभावतापत्तिः । कुत इत्याह-तदन्यकार्याणामपि तस्मात्विवक्षितखभावादन्ये तदन्ये, स्वभावा इति प्रक्रमः, तेषां कार्याणि-सदादिविज्ञानादीनि तत्कार्याणि तेषामपि तत्तथातया तस्य-वस्तुनस्तथाता-एकजातीयविज्ञानापेक्षया एकस्वभावा अनेककार्यजननैकखभावता तया सामान्येनाप्येकस्वभावापेक्षया सदाधनेकविज्ञानादिकार्यजननैकस्वभावतयाऽविरोधात् तदेकस्वभावतापत्तिरिति । १५ एतदाशक्याह-अत्रोच्यते-एकान्तवादिन एवायम्-अनन्तरोदितः "ततस्तयोरेक्य'मित्यादिलक्षणो दोषः, नानेकान्तवादिनः । कुत एतदित्याह-तस्येत्यादि । तस्य-एकान्तवादिनो यस्मादचित्रमेवैकम् एकान्तैकरूपम् । यदि नामैवं ततः किमित्याह-न चानेककार्यजननैकखभावतां विहाय ततः-एकस्मात् , इह प्रक्रमे, अधिकृतैकखभावात् , अनेकं भवति एकापरविज्ञानादि । यदि २० नामैवं ततः किमित्याह-अनेककार्यजनने च नाचित्रमेकत्वम् , अनेकगभैंकत्वस्य सर्वथैकत्वविरोधात् ।।
दोषान्तरमाह तद्भावेऽपीत्यादिना । तद्भावेऽपि-अचित्रैकखभावेऽपि कास्यन-सामस्त्येन एकेन प्रमात्रा तहात्-अधिकृतस्वभावग्रहात् तदपरावसायग्रहणप्रसङ्गा, तस्मात्-एकस्मात् प्रमातुरपरे, प्रक्रमात् प्रमातार एव, तदपरे तेषामव- २५ सायाः--ज्ञानानि तेषां ग्रहणम्-अवगमस्तत्प्रसङ्ग इति समासः। कुत इत्याह-तस्येत्यादि । तस्य-अधिकृतस्वभावस्य । किविशिष्टस्येत्याह-तजननवतत्त्वस्य-अपरावसायजननस्वभावत्वस्य, अन्यथा तदपरावसायग्रहणमन्तरेण ग्रहणायोगात् । अयोगश्च तत्सावधिकत्वात् तत्-अपरावसायजननखमावो ह्यसाविति तत्सावधिकः । यदि नामैवं ततः किमित्याह-न निरवधिकं ग्रहणं तत्-अपरावसाय-३० जननस्वभावविकलं ग्रहणं तद्रहणम् , तदपरावसायजननस्वभावग्रहणमिति भावनीयमेतत् ।। १ द्रष्टव्यं १९४ तमे पृष्ठे । २ 'वा' इति घ-पाठः ।