________________
अधिकारः]
खोपज्ञव्याख्यामुनिचन्द्रीयविवरणयुतम्
प्रतिपस्या व्यभिचारः, तत्र समस्पर्शज्ञानबाधकोपलब्धेः । न चैवमस्थास्तत्सिद्धिः, तथाऽनुभवाभावात् । न च दोषक्षये तद्भावे तत्तुल्यता, तभावे प्रमाणाभावात् । न च योगिज्ञानं प्रमाणमत्र, तत ५ एव हेतोः । न च तथाविधस्तदुपदेश एव प्रमाणम् , तस्याप्याकारशून्यत्वे तदसम्भवात् । न चासत्यपृष्ठा भ्रान्तिप्रतिपत्तिः, क्वचिददर्शनात्, अन्तरुपप्लवसमुद्भवाया अपि तद्रष्टुस्तदध्यारोपेण
(स्वो० व्या०) भावात् । न च चित्रे निनोन्नतप्रतिपत्त्या अविगानभावोत्पन्नया व्यभि-१० चारः-अनैकान्तिकता। कुत इत्याह-तत्र-चित्रनिम्नोन्नतप्रतिपत्तौ समस्पर्शज्ञानबाधकोपलब्धेः । न चैवमस्या:-ऊर्ध्वादिभेदप्रतिपत्तेः तत्सिद्धिःअभेदज्ञानबाधकसिद्धिः। कुत इत्याह-तथाऽनुभवाभावात् । तथा-तेन प्रकारेण अभेदज्ञानबाधकमावलक्षणेनानुभवाभावात् । न च दोषःये सत्यात्मन एव तद्भावे-अभेदज्ञानबाधकभावे तत्तुल्यता-चित्रनिनोन्नतप्रतिपत्तितुल्यता । कुत ३५ इत्याह-तद्भावे-अभेदज्ञानबाधकभावे प्रमाणाभावात् , दोषक्षये एवम्भूतं ज्ञानं भविष्यति नान्यादृशमित्यत्र न प्रमाणम् । न च योगिज्ञानं प्रमाणमत्र-तद्भावे । कुत इत्याह-तत एव हेतोः, प्रमाणभावादेवेत्यर्थः । न चेत्यादि । न च तथाविधः-भेदाभावप्रतिपादकः "असन्तो भेदाः सदाभावात्" इत्यादिः तदुपदेश एव-योग्युपदेश एव प्रमाणम् अत्र । कुत इत्याह-तस्यापि-योगिन आकार-२० शून्यत्वे सति तदसम्भवात्-उपदेशासम्भवात् । किं हि अनाकार उपदिशति ? ॥
दोषान्तरमाह न चेत्यादिना । न च असत्यपृष्ठा-असत्यपूर्वा भ्रान्तिप्रतिपत्तिः । कुत इत्याह- कचिददर्शनात् असत्यपृष्ठाया भ्रान्तेः, अन्तरुपप्लवसमुद्भवाया अपि चिन्मात्रोपलब्धादिरूपायाः तद्रष्टुः-सत्यमात्रा(त्र)द्रष्टुः तद
(विवरणम्) (१९) असन्तो भेदाः सदाभावादिति । यदि हि कपालादयोऽवस्थाभेदा वस्तुसन्तो भवेयुस्तदा सर्वदाऽप्यमीषां भावः स्यात् । न च सर्वदाऽप्येतेषां भावः । अतरिष्वपि कालेषु विद्यमानतया प्रतीयमानं मृन्मात्रमेव वस्तु सदिति ॥ इति श्रीमुनिचन्द्रसूरिविरचिते अनेकान्तजयपताकोद्योत
दीपिकाटिप्पणके नित्यानित्यवस्त्वधिकारः॥ १ 'प्रमाणान्तरस्याप्याकार.' इति क-पाठः। २ 'न चासत्यपीष्टा भ्रान्ति.' इति उ-पाठः । ३ 'प्रकारेण भेद.' इति घ-पाठः। ४ 'क्षये तद्भावे तत्तुल्यतानवदोषक्षये सत्यामन एवं' इति ऊ-पाठः। ५ सदाऽभावात् इति क-पाठः। ६ 'अपि वियन्मात्रोप.' इति ङ-पाठः।
२५