________________
अनेकान्तजयपताकाख्यं प्रकरणम् [द्वितीया
(मूलम्) प्रवृत्तेः । न चाजन्मानुपलब्धपीतभावकामलिशङ्खपीतप्रतिपत्त्या व्यभिचारः, तद्भावजन्मान्तरोपलब्धिबलेन तत्प्रवृत्तेः, अन्यथाऽति५प्रसङ्गात् । इति अनुपचरिताकारसिद्धया पर्यायसिद्धिरिति ।
एतेन 'स्यादारेका-न हि कूटस्थनित्यतया' इत्यादि यदाशङ्कयोक्तं 'पर्यायव्यतिरिक्तस्य द्रव्यस्यासिद्धेः' इत्यादि, तदपि प्रतिक्षिसमेवावगन्तव्यम्, कथञ्चिद् व्यतिरेकसिद्धेरिति । तथाहि
"अन्योन्यव्याप्तिभावेन द्रव्य-पर्याययोः कथम् । भेदाभेदो विरुद्धः स्यात् तद्भावानुपपत्तितः?॥" नान्योन्यव्याप्तिरेकान्तभेदेऽभेदे च युज्यते । अतिसङ्गादेक्याच, शब्दार्थानुपपत्तितः ॥
(खो व्या०) ध्यारोपेण-सत्यमात्राध्यारोपण केशाद्यपेक्षया प्रवृत्तेः कारणात् । न चेत्यादि । न १५ च आजन्मानुपलब्धपीतभावश्चासौ कामली च 'नालिकेर'द्वीपवासिप्रख्यस्तस्य
शङ्खपीतप्रतिपत्तिः तया व्यभिचारोन च । कुत इत्याह-तद्भावश्च-पीतभावश्च जन्मान्तरोपलब्धिश्च संसारानादितया तद्भावजन्मान्तरोपलब्धी एतयोर्बलंसामर्थ्यं तेन, तत्प्रवृत्तेः-अनन्तरोदितपीतप्रतिपत्तिप्रवृत्तेः । अन्यथा-एवमनभ्युपगमे । किमित्याह-अतिप्रसङ्गात् , पञ्चवर्णातिरिक्तवर्णान्तरप्रतिपत्तिप्रसङ्गादित्यर्थः। २० इति-एवम् अनुपचरिताकारसिद्धया हेतुभूतया पर्यायसिद्धिः, आकारस्यैव पर्यायत्वात् इति ॥
एतेनेत्यादि । एतेन-अनन्तरोदितेन 'स्यादारेका-न हि कूटस्थनित्यतया इत्यादि यदाशङ्कयोक्तं पूर्वपक्षग्रन्थे 'पर्यायव्यतिरिक्तस्य द्रव्यस्यासिद्धेः' इत्यादि तदपि सर्व प्रतिक्षिप्तमेवावगन्तव्यम् । कुत इत्याह-कथश्चिद् २५ व्यतिरेकसिद्धेः पर्यायेभ्यो द्रव्यस्य इति । एतदेवोपदर्शयति तथाहीत्यादिना । . तथाहीति पूर्ववत् । अन्योन्यव्याप्तिभावेन हेतुना । कयोरित्याह-द्रव्यपर्याययोः। किमनयोरित्याह-कथं भेदाभेदो विरुद्धः स्यात् ? । नैव । कुत इत्याह-तद्भावानुपपत्तितः-अन्योन्यव्याप्तिभावानुपपत्तेः ॥
तथाहि नान्योन्यव्याप्तिरेकान्तभेदेऽभेदे च युज्यते। कुत इत्याह-अति३० प्रसङ्गात् एकान्तभेदे 'हिमवद्-विन्ध्य योरन्योन्यव्याप्तिप्रसङ्गात् , ऐक्याच एकान्ताभेदेऽणोरप्यात्मनैव अन्योन्यव्याप्तिप्रसङ्गात् तथा शब्दार्थानुपपत्तितः कारणात्॥
१ 'इति' इति पाठो ध-पुस्तके नास्ति। २ प्रेक्ष्यतां १८ तमं पृष्ठम् । ३ १९ तमे पृष्ठे । ४ अनुष्टुप् । ५ 'प्रसङ्गाच्चैक्यान्च' इति क-पाठः। ६ अनुष्टुप् । ७ 'भूतयो (१) पर्याय.' इति ऊ-पाठः। ८ १९तमे पृष्ठे ।।