________________
अनेकान्तजयपताकाख्यं प्रकरणम् [द्वितीयः
(मूलम् ) नचेह किश्चिन्न निवर्तते, एकान्तानिवृत्तौ तद्विलक्षणवुद्ध्यभावतः कपालप्रतिपत्त्यसिद्धेर्विशेषाभावात् तस्याप्रच्युतानुत्पन्नस्थिरैकख५ भावत्वात् । न चोवांद्याकार एव कपालाद्याकारः, प्रतीत्यादिभेदतः तद्भेदसिद्धेः, न चासन्ताविमौ, तथाप्रतिपत्तेः। न च द्विचन्द्रादिप्रतिपत्तिवद् भ्रान्तेयम्, अविगानतस्तद्भावात् । न च चित्रे निनोन्नत
(स्वो० व्या०) अनेकान्तात्मके तस्मिन् वस्तुतत्त्वे एकान्तविकल्पानवसर एव, यथा मेचके एकान्त१० कृष्णादिविकल्पस्य । एवं च न तत्र किञ्चिदेकान्तेन निवर्तते, नापि तिष्ठति । किं तर्हि ? । वस्त्वेव तत् तथा भवतीति सिद्धमेतत् । एवंविधे चास्मिन् एकान्तविकल्पनं सत्त्वादिनाऽग्यौष्ण्यादिप्रतिषेधकल्पमिति भावितस्याद्वादमार्गेणापकर्णयितव्यम् । इति अलं विस्तरेण ॥
न चेत्यादि । न च इह-वस्तुनि किश्चिन्न निवर्तते, अपि तु निवर्ततेऽपि १५ किञ्चित् । कुत इत्याह-एकान्तेत्यादि । एकान्तानिवृत्तौ सत्यां तत्तत्त्वेन तद्विलक्षणबुद्ध्यभावतः, प्रक्रमाद् घटविलक्षणबुद्ध्यभावतः कारणात् । किमित्याहकपालप्रतिपत्त्यसिद्धेः । असिद्धिश्च विशेषाभावात् । विशेषाभावश्च तस्य, प्रक्रमाद् घटवस्तुनः, अप्रच्युतानुत्पन्नस्थिरैकखभावत्वात्। न चेत्यादि। न च ऊर्ध्वाद्याकार एव-एकान्तेन कपालाद्याकारः प्रतीत्यादिभेदतः। 'आदि'२० शब्दात् कार्यभेदग्रहः । तद्भेदसिद्धेः-ऊर्ध्वाद्याकार-कपालाद्याकारयोर्भेदसिद्धेः। न चासन्ताविमौ-ऊर्ध्वाधाकार-कपालाद्याकारौ तथाप्रतिपत्तेः-अस्तित्वेन प्रतिपत्तेः । न च द्विचन्द्रादिप्रतिपत्तिवद् भ्रान्तेयम्-अायाकारकपालाद्याकारप्रतिपत्तिः । कुत इत्याह-अविगानतः-अविगानेन तद्भावात्-अधिकृतप्रतिपत्ति
(विवरणम्) २५ अंशेन प्रहणेन हेतुना अभावप्रसङ्गात् । अयमत्राभिसन्धिः -भेदाभेद एव सति द्रव्यपर्याययोनिवर्तमान-तिष्ठतोरंशयोहणमुपपद्यते। एकान्ततो भेदे तु कथमस्येदं निवर्तते इति व्यपदेशः । अभेदे त्वविचलितरूपत्वात् कथं निवृत्तिग्रहणम् ? । अंत एकान्तभेदेऽभेदे च सति वस्तुनोऽभाव एव स्यादिति ।।
(१५) तत्तत्त्वेनेति । तस्य-घटादेर्वस्तुनोऽविचलितरूपत्वेन तत्त्व-घटादित्व३० मेव तेन ॥
'न चेह न किञ्चिन्न' इति क-पाठः । २ 'वस्तुनि न किञ्चिन्न' इति क-पाठः। ३ एकान्ताभेदे' इति क-पाठः। ४ 'अथ' इति ख-च-पाठः ।