________________
अधिकारः] खोपज्ञव्याख्यामुनिचन्द्रीयविवरणयुतम्
१२९ (मूलम् ) किञ्चिन्निवर्तत एवापरं तिष्ठत्येवेति तद्भेदापत्त्याऽनेकान्तवादहानादि", तदपि परिहृतमेव, केवलोभयासिद्धेः, वस्तुन एव शबलरूपत्वात् निवर्तमानस्य कथञ्चिदनिवर्तमानाव्यतिरिक्तखभावत्वात् , तत्तदनु-५ भवसिद्धेस्तदेतदित्यवगमात्, न तदवेदिनोऽक्षयोपशमात्, अनिवर्तमानस्यापि कथञ्चिन्निवर्तमानाव्यतिरिक्तखभावत्वात्, स्वभावस्य चापर्यनुयोगात्, न्याययुक्तत्वात् , अन्यथा वस्त्वनुपपत्तेरिति ॥
(स्वो० व्या०) तत्र-नित्यानित्ये वस्तुनि किश्चिन्निवर्तत एव, अन्यथैकान्तनित्यत्वापत्तेः, १० अपरं तिष्ठत्येव, अन्यथैकान्तानित्यतापत्तेः । इति-एवं तयोः-निवर्तमानतिष्ठतो दापत्त्या कारणेन अनेकान्तवादहानादि-अनेकान्तवादहानं निवर्तमानस्यैकान्तानित्यतया तिष्ठतश्च नित्यतया, 'आदि'शब्दात् तदेकान्तंदोषश्वोक्तनीत्येति, तदपि परिहृतमेव । कुत इत्याह-केवलोभयासिद्धेः केवलयोरुभययोः-निवर्तमान-तिष्ठतोः असिद्धेः कारणात् परिहृतम् । एतदेव भावयति वस्तुन १५ इत्यादिना । वस्तुन एव शबलरूपत्वात् , उक्तनीतेः । एवं च निवर्तमानस्य कथञ्चित् केनचित् प्रकारेण तत्सम्बन्धबीजनिबन्धनेन अनिवर्तमानाव्यतिरिक्तखभावत्वात् । एतत् स्वभावत्वं च तत्तदनुभवसिद्धेः तस्मिन्ननिवर्तमाने तदनुभवसिद्धेः-निवर्तमानानुभवसिद्धेः । सिद्धिश्च तदेतदित्यवगमात् कपालेषु घटकपालानीति परिच्छेदात् । नायं 'नालिकेर'द्वीपवासिनः प्रथमदर्शन इत्याशङ्का- २० पोहायाह-न तदवेदिनोऽक्षयोपशमात्, कपालेषु न घटकपालानीति परिच्छेदः। कस्य ?। तदवेदिनः-घटावेदिनः। कस्मादित्याह-अक्षयोपशमात्-क्षयोपशमाभावात् । धूमाग्निजन्यत्ववदिति भावनीयम् ।।
लेशतः प्रासङ्गिकमभिधाय प्रकृतमेवाह-अनिवर्तमानस्यापि कथञ्चिदिति पूर्ववत् निवर्तमानस्वभावाव्यतिरिक्तस्वभावत्वात् तत्तदनुभवसिद्धेरित्यादि २५ यथायोग योजनीयम् । किमयमेवम्भूतखभाव इत्येतत्परिजिहीर्षयाऽऽह-स्वभावस्य चापर्यनुयोगात्-पर्यनुयोगाभावात् । अभावश्च न्याययुक्तत्वात् । अनुभवसहायत्वेन विपक्षे बाधामाह-अन्यथा वस्त्वनुपपत्तेः । तद्भेदाभेदमन्तरेण निवर्तमान-तिष्ठतोरग्रहणेनाभावप्रसङ्गादित्युक्तप्रायम् । ततश्चैतदुक्तं भवति
(विवरणम्) (२८-२९) तभेदाभेदमन्तरेण निवर्तमान-तिष्ठतोरग्रहणेनाभावप्रसङ्गादिति । तयोः-द्रव्य-पर्याययोर्भेदाभेदमन्तरेण-विना किमित्याह-निवर्तमान-तिष्ठतोः . . १ 'दोषाश्चोक्तः' इति क-पाठः। २ 'रुभयोनिवर्त०' इति घ-पाठः । ३ 'वत् अनिवर्त.' इति क-पाठः।
अनेकान्त. १७