________________
१२०
अनेकान्तजयपताकाख्यं प्रकरणम् [द्वितीयः
(मूलम्) अहेतुकत्वापत्तेः, युत्तयनुभवविरोधात् । मृत्समानपरिणामा तु
भवति, तथाप्रतीतेः । न चैतावदन्वयलक्षणम् , अपि त्वनेकखभावे ५ वस्तुनि तत्तन्मृत्वम्, एतच्च तद्रूपशक्तिपरिणामादिसङ्गतं तत्तथा
भावाध्यवसायहेतुरविगानप्रतीयमानं विशिष्टमेव, इति नात्यन्त. भिन्नायां मृदि वर्तत इति बाधाऽभावः॥ एवमन्वयव्यतिरेकवद् वस्तुसिद्धौ यदपि परैश्चोद्यते-"तथापितत्र
(खो० व्या०) १० नामैवं ततः किमित्याह-अहेतुकत्वापत्तेः, इतरस्य प्राङ्गिदर्शितस्वरूपस्य, एवं
युक्त्यनुभवविरोधात् कारणात्, न घटान्तरकपालमृदधिकृतघटमृदात्मिकेति योजनीयम् , किन्तु मृत्समानेत्यादि । मृत्समानर्परिणामा तु भवति घटान्तरकपालमृत् । कुत इत्याह-तथाप्रतीतेः तथा-मृत्समानपरिणामतया प्रतीतेः- परिच्छे
दात् । अधिकृतघटकपालमृदप्य(१पी)यमेवास्त्विति तद्वदन्वयाभाव इति । एतदाश१५ झ्याह-न चैतावदित्यादि । न चैतावत्-समानपरिणाममात्रम् अन्वयलक्षणम्,
अपितु अनेकखभावे वस्तुनि-घटमृदादौ तत्तन्मृत्त्वमिति पूर्ववत् । एतच्चतत्तन्मृत्त्वं तद्रूपशक्तिपरिणामादिसङ्गतम्-अधिकृतघटमृद्पशक्तिपरिणामादिना सङ्गतं-युक्तियुक्तम् । 'आदि शब्दात् तद्गन्धादिग्रहः । एतदेव विशिष्यते-तत्
तथाभावाध्यवसायँहेतुः तस्याः-अधिकृतघटमृदस्तथाभावः-विवक्षितकपाल२० मृद्भावस्तत्तथाभावस्तस्मिन्नध्यवसायस्तत्तथाभावाध्यवसायस्तथा तत्स्वरूपग्राहको बोधविशेषस्तस्य हेतुः-कारणं तत्तन्मृत्त्वम् , तथा च सोऽयं घट इति तत्कपालेषु भवत्यध्यवसायः । एवमविगानप्रतीयमानं विशिष्टमेव तत्तन्मृत्त्वमिति नात्यन्तभिन्नायां मृदि, प्रक्रमाद् घटान्तरकपालमृदि, वर्तत इति-एवं
बाधाऽभावः। ततश्च साधूक्तं 'न काचिन्नो बाधेति ॥ २५ अतिदेशेन दूषणान्तरं परिहरन्नाह-एवमित्यादि । एवम्-उक्तनीत्या अन्वयव्यतिरेकवद् वस्तुसिद्धौ सत्यां यदपि परैश्वोद्यते कुशाग्रीयबुद्धिभिः तथापि
(विवरणम्) घटस्थापि परमार्थतो 'माथुर घटकपालेषु व्यापारात् स्वकपालानां पृथग जन्मप्रसङ्गेन तेषां तेषु प्रवेशादुच्छेद एव स्यात् । न चैतद् दृष्टमिष्टं वा कस्यचिदिति ।।
१ 'दन्वयनिमित्तं' इति क-पाठः । २ 'इतरस्य सदन्तरस्य प्राग्' इति क-पाठः। ३ प्रेक्ष्यतां १२६तमं पृष्ठम् । ४ 'परिणामानुभवति' इति क-ङ-पाठः। ५ 'मेवास्ति तद्वद.' इति क-पाठः । ६ 'परिणामादिना गतं' इति क-पाठः । ७ 'हेतुस्तया अधिः' इति ङ-पाठः। ८ १२५ तमे पृष्ठे ।