________________
अधिकार: ]
स्वोपज्ञव्याख्यामुनिचन्द्रीयविवरणयुतम्
(मूलम् )
१२७
तद्भावेन इतरोच्छेदापत्तेः, तद्वदितरस्यातदुपादानत्वप्रसङ्गात्,
( स्वो० व्या० )
मृत्त्वादिविरोधात् । एनमेवाह - तद्भावेन - सदन्तरस्य सदन्तरत्वभावेन अधिकृतघट- ५ मृदादेः, घटान्तरकपालमृदादिभावेनेत्यर्थः । किमित्याह- इतरोच्छेदापत्तेः - घटान्तरकपालमृदाद्युच्छेदापत्तेः, अधिकृतघटमृदादौ तत्प्रवेशादित्यर्थः । ततः किमित्याहतद्वदितरस्येति । अत्र तद्वदिति घटान्तरकपालमृदाद्युच्छेदापत्तिवदितरस्य - सदन्तरस्वाधिकृतघटमृदादिनिबन्धनस्य विवक्षितकपालमृदादेरुच्छेदापत्तिः । कुत इत्याहअतदुपादानत्वप्रसङ्गात्, तत् - अधिकृतघटमृद्वस्तु उपादानं यस्य सदन्तरस्य - १० विवक्षित कपालमृलक्षणस्य तत् तदुपादानं तद्भावस्तदुपादानत्वं तैस्य नञा प्रतिषेधः, न तदुपादानत्वमतदुपादानत्वम्, तत्प्रसङ्गात्, तस्यान्यत्र प्रविष्टत्वादित्यर्थः । यदि ( विवरणम् )
(७) 'अधिकृतघटमृदादौ तत्प्रवेशादित्यर्थः' इत्यादिकस्य (१२) ' तस्यान्यत्र प्रविष्टत्वादित्यर्थः' इति पर्यन्तस्यायमभिप्रायः - इह बौद्धः प्राह - यथा 'पाटलिपुत्रक' - १५ घटस्य सम्बन्धिनी कपालमृत् न ' माथुर 'घटेन सह कैचनान्वयमावहति एवं 'पाटलिपुत्रक' घटेनापि कपालमृदः तस्याप्रयोगः । या या कपालमृत् सा सा न तत्सम्बन्धिनी, कपालमृत्त्वात् यथा 'माथुर' घटकपालमृत् कपालमृश्चेयमतो न तत्सम्बन्धिनीति व्यापकत्वानुपलब्धिः ॥ अत्र सूरिः प्राहः - न ह्यस्माभिः कपालमृत्त्वमात्रमृन्मयनिबन्धनमभ्युपगम्यते, किन्तु 'पाटलिपुत्रक' घटवर्णगन्धरसादिधर्मान्वयेन २० तत्पूर्वकत्वम्, तच 'माथुर' घटकपालमृदि नास्ति । अतो न तया 'पाटलिपुत्रीय' घटकपालेष्वन्वयव्यभिचार उद्भावनीयः । एवं च 'पाटलिपुत्र' घटात् स्वकपालमृदेव जन्म लभते, 'नं तु 'माथुर' घटकपालमृत् (यदि ) स्यात् तदा 'माथुर' घटकपालमृदो 'माथुर'घटाजन्यत्वेन 'माथुर' घटकपालमृदिति ज्ञानाभिधानायोगेन चाभावव्यवहारयोग्यैव सा स्यात् । एवं च परमार्थचिन्तायां 'माथुर' घटकपालमृदः 'पाटलिपुत्रक' घट-२५ कपालमृदि प्रवेश आपन्नः पार्थक्यानुपलैम्भप्रसङ्गवशेनेति । एवं च 'पाटलिपुत्रक'
३ 'काञ्चनान्व
१ 'कृतमृदादेः' इति ङ-पाठः । २ ' तस्यानया प्रतिषेधः' इति क- पाठः यमावहति' इति च-पाठः । ४ 'तस्याः प्रयोगः' इति क-पाठः । ५ ' तस्य सम्बन्धिनी' इति च- पाठः । ६ 'कपालमृचे०' इति क - पाठः । ७ 'व्यापकत्वानुपकत्वानुपलब्धिः' इति ख- पाठः । ८ ' मात्राय निबन्धन ०' इति क- पाठः, 'मात्रमन्मयनिबन्धन० ' इति तु ख- पाठः । ९ धर्मा च येनातत्०' इति क-पाठः । १० ' न माथुर ०' इति क-पाठः । ११ 'योग्येव सा इति च - पाठः । १२ 'लम्मेन प्रसङ्गो वशेन' इति क - पाठः । १३ एवं पाटलि०' इति च पाठः ।