________________
१२६
. अनेकान्तजयपताकाख्यं प्रकरणम् [द्वितीयः
. (मूलम् ) तत् कथं न बाधेति? । अत्रोच्यते-अधिकृतघटमृद एव खकपाल
मृत्वात् एकवस्तुसन्तानत्वात् सतः सर्वथाऽसत्त्वानापत्तेः, तदुत्प५ त्त्यादिदोषप्रसङ्गात् । इति नैवासौ कपालमृद् घटमृदः सर्वथाऽन्यैव, तस्या एव तथाभावात् , अन्यथाऽबीजत्वेन कपालानुपपत्ते, असत एव सत्ताऽयोगादतिप्रसङ्गादिति । न चैवं घटान्तरकपालमृदधिकृतघटमृदात्मिका, अतत्पूर्विकत्वात् सदन्तरस्य सदन्तरत्वविरोधात्,
(खो० व्या०) १० तन्मृत्त्वेऽतन्मृत्त्वे च भावात् प्रमेयत्ववदनित्यत्वसिद्धौ । यस्मादेवं तत्-तस्मात् कथं न . बाधा येनोच्यते 'ने काचिन्नो बाधेति?' । एतदाशङ्कयाह-अत्रेत्यादि । अत्र उच्यते।
किमित्याह-अधिकृतघटमृद एव खकपालमृत्त्वात् , बाधाऽभाव इति वक्ष्यमाणक्रियायोगः। 'ख'ग्रहणं घटान्तरकपालमृव्यवच्छेदार्थम् । स्वकपालमृत्त्वं च एकवस्तुसन्तानत्वात्। एक एवासौ वस्तुसन्तानो भावाव्यवच्छेदेन । एकवस्तुसन्तानत्वं १५ च सतः सर्वथाऽसत्त्वानापत्तेः । न हि सदसद् भवति । कुत इत्याह
तदुत्पत्त्यादिदोषप्रसङ्गात्, असदुत्पत्तितन्नाशसदन्तरोन्मजनप्रसङ्गादित्यर्थः । इति-एवं नैवासौ कपालमृद् विवक्षिता घटमृदो विवक्षिताया एव सर्वथाऽन्यैव, अन्या तु भवत्यू/द्यपृथग्भवनात्मस्वभावनिवृत्त्या, किन्त्वन्यैव न । कुत इत्याह-तस्या एव-विवक्षितघटमृदः तथाभावात्-विवक्षितकपालमृत्त्वेन भावात् । २० [भावश्च] अन्यथा-अन्येन प्रकारेण तस्या एव तथाऽभवनलक्षणेन अवीजत्वेन
हेतुना कपालानुपपत्तेः-विवक्षितकपालानुपपत्तेः । अनुपपत्तिश्च असत एव - सत्ताऽयोगात् । अयोगश्च अतिप्रसङ्गात् तत्प्रतिनियतशक्त्यभावेन तद्वत्
तदन्तरापत्तेरिति हृदयम् । न चैवमित्यादि । न चैवं घटान्तरकपालमृत् अविवक्षिता अधिकृतघटमृदात्मिका-विवक्षितघटमृदात्मिका । कुत इत्याह-अतत्२५ पूर्विकत्वात् । सा-अधिकृतघटमृत् पूर्वा यस्याः-विवक्षितकपालमृदः सा तत्पूर्विका,
न तत्पूर्विका अतत्पूर्विका, तद्भावस्तस्मात् । इहैव युक्तिमाह सदन्तरस्येत्या, दिना । सदन्तरस्य-अधिकृतघटमृदादेः सदन्तरत्वविरोधात्-घटान्तरकपाल
(विवरणम्) (२२-२३) तत्प्रतिनियतशत्यभावेन तद्वत् तदन्तरापत्तेरिति । तस्य३० असतः प्रतिनियतायाः-विवक्षितैककार्यजनिकायाः शक्तेरभावेन हेतुना तद्वत्-विवक्षितकार्यवत् तदन्तरापत्तेः-कार्यान्तरभवनप्रसङ्गात् ॥
१ 'भावप्रमेयत्वः' इति उ-पाठः । २ प्रेक्ष्यतां १२५तम पृष्ठम् । ३ 'बाधाभाव इति' इति घ-पाठः। ४ दृश्यतां १२८ तमं पृष्ठम् । ५ 'चैवमित्यादिना । म' इति क-पाठः ।