________________
अधिकारः] खोपशव्याख्यामुनिचन्द्रीयविवरणयुतम्
(मूलम्) भूयमानत्वात् । प्रतिनियतैकखभावानुभवनिवन्धनाभ्युपगमे च पर्यायतः समानपरिणाम एवाभ्युपगत इति ने काचिन्नो बाधेति । अतो न चासौ कपालमृद् घटमृदः सर्वधाऽन्यैव, तदत्यन्तभेदे तस्या ५ अमृत्त्वप्रसङ्गादिति स्थितम् ॥
तत्तन्मृत्त्वेनान्वयःसाधयितुमिष्टा, एतच्च मृत्वमधिकृतघटमृदोऽत्यन्तभिन्नायामपि घटान्तरकपालमृदि विद्यत एवेति व्यभिचारि
(स्वो० व्या०) विलक्षणबुद्धिजननस्वभावेन व्यावृत्तेरन्यथाऽनुपपत्तेरिति । न च भवति तदेकान्त-१० विभिन्नावभासहेतुः । कुत इत्याह-मृत्खभावस्य तत्र-कपालपदार्थेऽनुभूयमानत्वात् कारणात् ॥
अथ ज्वरादिशमनौषधिनिदर्शनेन प्रतिनियतं मृत्पिण्डादिषु तथैकस्वभावानुभवनिबन्धनं किञ्चिदिष्यत इत्येतदाशङ्कयाह-प्रतिनियतेत्यादि । प्रतिनियतं च तत् एकखभावानुभवनिवन्धनं च-तुल्यस्वभावानुभवकारणं चेति विग्रहः,तस्य अभ्युप-१५ गमस्तस्मिन् सति पर्यायतः-पर्यायेण समानपरिणाम एवाभ्युपगतः प्रतिनियतशब्देन, इति-एवं न काचित् न:-अस्माकं बाधेति । अतो न नासौ कपालमृद् घटमृदः सर्वथाऽन्यैव, तदत्यन्तभेदे तस्या अमृत्त्वप्रसङ्गादिति स्थितं निगमनमेतत् पूर्ववत् ॥
पराभिप्रायमाह तत्तन्मृत्त्वेनेत्यादिना । तस्याः-विवक्षितकपालमृदः तन्मृत्त्वम्-२० अधिकृतघटमृत्त्वं तत्तन्मृत्त्वं तेन, तस्या एव तथाभावेनेत्यर्थः । अन्वयः साधयितुमिष्टो जैनस्य । मृत्त्वमत्र साधनम् , तन्मृत्त्वं तु साध्यम् । एतच्च मृत्त्वमधिकृतघटमृदः सकाशात् अत्यन्तभिन्नायामपि । कस्यामित्याह-घटान्तरकपालमृदि भिन्नसन्तानवर्तिन्यां विद्यत एवेति कृत्वा व्यभिचारि-अनैकान्तिकं
(विवरणम्) (२२) मृत्त्वमत्र साधनम् , तन्मृत्त्वं तु साध्यमिति । अत्र हि परेण स्वमति. मोहान्मृत्त्वेन हेतुना किलाचार्येण कपालेषु विवक्षितघटमृत्त्वं साधयितुमारब्धमास्त इत्युत्प्रेक्षितम् ॥
, 'न कदाचिनो' इति क-पाठः । २ तदभ्यन्तरमेदे' इति क-पाठः। ३ 'खमितिमोहा.' इति क-पाठः । ४ 'घटे मृत्त्वं' इति क-पाठः ।