________________
१२४
अनेकान्तजयपताकाख्यं प्रकरणम् [द्वितीयः
(मूलम्) स्थादेतत् वस्तुतः सजातीयेतरव्यावृत्तस्वरूपत्वात् प्रतिनियतकखभावत्वात् सर्वभावानां यथोक्तदोषाभावः । तथा च यथैवासी ५ कपालभाव उदकादिभ्यो व्यावृत्तः सन् मृत्वभावः, एवं घटादि. भ्योऽपि, तस्यैकखभावत्वात् तेनैव रूपेण व्यावृत्तत्वादिति । एतदप्ययुक्तम् , अनुभवविरुद्धत्वात् । तथाहि-यदि स येनैव खभावेनामृत्स्वभावेभ्यो व्यावृत्तस्तेनैव मृत्स्वभावेभ्योऽपि, हन्त तर्हि यथैवामृत्स्वभावभावैकान्तविभिन्नावभासहेतुः, तथान्यावृत्तः, एवं १० मृत्स्वभावापेक्षयापि स्यात्, तदत्यन्तविलक्षणबुद्धिजननस्वभावव्यावृत्त्यन्यथाऽनुपपत्तेः । न च भवति, मृत्स्वभावस्य तत्रानु
(खो० व्या०) पराभिप्रायमाह स्यादेतदित्यादिना । स्यादेतद् वस्तुतः-परमार्थतः सजातीयेतरव्यावृत्तस्वरूपत्वात् कारणात् प्रतिनियतैकखभावत्वात् सर्व१५ भावानां-कपालादीनाम् । किमित्याह-यथोक्तदोषाभावा-अमृत्स्वभावव्यावृ. त्तावपि मृत्स्वभावत्वानुपपत्त्यवसानदोषाभावः । एतद्भावनायैवाह-तथा चेत्यादि । तथा च यथैवासौ कपालभाव उदकादिभ्यो व्यावृत्तः सन् मृत्स्वभावः, एवं घटादिभ्योऽपि व्यावृत्तो मृत्स्वभाव एव । कुत इत्याह-तस्यैक
खभावत्वात् तेनैव-एकस्वभावेन रूपेण व्यावृत्तत्वादिति । एतदाशक्याह२० एतदप्ययुक्तम्। कुत इत्याह-अनुभवविरुद्धत्वात् कारणात् । एतदेव भावयति
तथाहीत्यादिना । तथाहीत्युपदर्शने । यदि सः कपालपदार्थों येनैव स्वभावेन अमृत्स्वभावेभ्यो व्यावृत्त उदकादिभ्यः तेनैव मृत्वमावेभ्योऽपिमृत्पिण्डादिभ्यः । एतदाशङ्कयाह-हन्त तीति । 'हन्त'शब्दो विवादे । तीक्षमायाम् । यथैव-येनैव प्रकारेण अमृत्खभावेभ्यो भावेभ्य उदकादिभ्य एकान्त२५ विभिन्नावभासहेतुरसौ । कुत इत्याह-तथा-तेन प्रकारेण व्यावय॑मानात्यन्तविलक्षणबुद्धिजननस्वभावलक्षणेन व्यावृत्तेः कारणात् , एवं मृत्वभावापेक्षयापि स्यात् तदेकान्तविभिन्नावभासहेतुरेव । कुत इत्याह-तदत्यन्त. विलक्षणबुद्धिजननखभावव्यावृत्त्यन्यथाऽनुपपत्तेः, व्यावय॑मानात्यन्त
१'भावानामयथोक्त०' इति क-पाठः । २ 'तथाहीत्युपप्रदर्शने' इति क-घ-पाठः । ३ 'भावेभ्यो मृत्पिडा०' इति ङ-पाठः। ४ 'व्यावर्तमानाऽत्यन्त.' इति क-पाठः । ५ 'व्यावर्त्तमानात्यन्त इति रू-पाठः।