________________
अधिकारः] खोपज्ञव्याख्यामुनिचन्द्रीय विवरणयुतम् १२३
(मूलम्) कपालपदार्थस्य मृत्स्वभावता, नोदकस्य, तेभ्यो व्यावृत्त्यभावात् । इत्यप्यसमीक्षिताभिधानम् , वस्तुनोऽसजातीयेतरव्यावृत्तान्यावृत्तोभयखभावापत्तेः । तथाहि-अमृत्स्वभावेभ्य एवोदकादिभ्यो ५ व्यावृत्ति(?त्त)स्वभावः। एवं सति कपालपदार्थः स्यात्, न तु मृत्पिण्डशिवक-घटादिभ्यो मृत्वभावेभ्योऽपि, तव्यावृत्तौ अमृत्खभावत्वप्रसङ्गात् । यथैवामृत्खभावेभ्यो व्यावृत्तः सन् मृत्स्वभावो भवति, एवं मृत्वभावेभ्योऽपि व्यावृत्तोऽमृत्खभावः स्यात् , न्यायानुगतमेतत्, अन्यथाऽमृत्स्वभावव्यावृत्तावपि मृत्स्वभावत्वानुपपत्तेः॥ १०
(स्वो० व्या०) स्वभावेभ्य उदकादिभ्यो व्यावृत्तत्वात् कारणात् कपालपदार्थस्य--अधिकृतस्य मृत्खभावता, नोदकस्य मृत्स्वभावता । कुत इत्याह-तेभ्यः-अमृत्स्वभावेभ्य उदकादिभ्य एव व्यावृत्यभावात् । न खुदकममृत्स्वभावेभ्यो व्यावृत्तम् , अमृत्त्वादेव । इति-एतदपि असमीक्षिताभिधानं वर्तते । कुत इत्याह-वस्तुनः-कपाल-१५ मृदादेः असजातीयेतरेभ्यो व्यावृत्ताव्यावृत्ततया उभयखभावापत्तेः। एतदेव भावयति तथाहीत्यादिना । तथाहीति पूर्ववत् । अमृत्स्वभावेभ्य एवोदकादिभ्यः, “आदि'शब्दाद् दहनादिग्रहः, व्यावृत्तखभावः-भिन्नखभावः । एवं सति-अतत्स्वभावव्यावृत्त्यभ्युपगमे सति कपालपदार्थः स्यात्, न तु मृत्पिण्ड-शिवक-घटादिभ्यो मृत्स्वभावेभ्योऽपि व्यावृत्तख २० भावः । कुत इत्याह-तव्यावृत्तौ-यथोदितमृत्स्वभावव्यावृत्तौ सत्याम् अमृत्स्वभावत्वप्रसङ्गात्, कपालपदार्थस्येति प्रक्रमः । एतद्भावनायैवाहयथैवेत्यादि । यथैव अमृत्स्वभावेभ्यो व्यावृत्तः सन् कपालपदार्थः मृत्वभावो भवति, एवं मृत्खभावेभ्योऽपि व्यावृत्तः सन् अमृत्स्वभाव: स्यात्-भवेत् , न्यायानुगतमेतत्, न्यायश्च यो यत्स्वभावेभ्यो ब्यावर्तते नासौ २५ तत्स्वभावो भवतीत्ययम् । इत्थं चैतदङ्गीकर्तव्यमित्याह-अन्यथेत्यादि । अन्यथा-- एवमनभ्युपगमे । किमित्याह-अमृत्स्वभावव्यावृत्तावपि सत्याम्, प्रक्रमात् कपालपदार्थस्य, मृत्स्वभावत्वानुपपत्तेः । यो यत्स्वभावेन्यो व्यावर्तते न स तत्स्वभाव एव भवतीति कृत्वा न्यायानुगतमेतदिति ॥
-
१ 'घटादिभ्योऽमृत्ख.' इति क-पाठः।