________________
१२२
अनेकान्तजयपताकाख्यं प्रकरणम् [द्वितीयः
(मूलम्) कथञ्चिदूर्वादिनिवृत्तिः, तदात्मभूतकपालाद्याकारानिवृत्ते, मृदोऽपि
च निवृत्तिः, तथाविधोर्खाद्यपृथग्भवनात्मस्वभावनिवृत्तेः । इति ५ सर्वत्रैव तद्भेदाभेदनान्तरीयकः शबलवस्तुव्यवस्थाकारी सकलप्रमात्रभ्रान्तसंवेदननिबन्धनः कथञ्चिन्निवृत्तिभावः सुयुक्तियुक्त इति त्यत्तवा परोदित इति मात्सर्य तत्त्वव्यवस्थाहेतुरित्याश्रित्य महागुणं भाव्यतामेष इति ॥
न चासौ कपालमृद् घटमृदः सर्वथाऽन्यैव, तदत्यन्तभेदे तस्या १० अमृत्त्वप्रसङ्गात्, यथोदकं न मृत्, ततोऽत्यन्तभेदात्, एवमसावपि स्थात् , तस्याविशेषादिति। स्यादेतत् अतत्स्वभावेभ्यो व्यावृत्तत्वात्
(खो० व्या०) न, तस्यापि-कपालाद्याकारस्य मृदः सकाशात् सर्वथा भेदासिद्धेः। अत एव कथञ्चिदूर्वादिनिवृत्तिः, न सर्वथा । कुत इत्याह-तदात्मभूतो(?)ह्य५ द्यात्मभूतकपालाद्याकारानिवृत्तेः । मृदोऽपि च निवृत्तिः, कथञ्चिदिति वर्तते, तथाविधोर्खाद्यपृथग्भवनात्मस्वभावनिवृत्तेः, तदनिवृत्तौ तु तद(?त्)पृथग्भवनायोग इति भावना। इति-एवं सर्वत्रैव-पटादिदीर्घत्वादौ तद्भेदाभेदनान्तरीयकः-द्रव्यपर्यायभेदाभेदनान्तरीयकः, कथञ्चिन्निवृत्तिभाव इति सम्बन्धः । अयमेव विशिष्यते-शबलवस्तुव्यवस्थाकारी-द्रव्यपर्यायशबलवस्तुव्यवस्था२० करणशीलः। पुनरपि विशिष्यते सकलेत्यादिना । सकलप्रमातृणाम् अभ्रान्तं यत् संवेदनं तन्निवन्धनः-तत्कारणभूतः तद्व्यवस्थापितो वेति कथञ्चिन्निवृत्तिभावः अनन्तरनिदर्शितस्वरूपः, अनुभवविरुद्धकुयुक्त्यपोहेन सुयुक्तियुक्तः, इति-अस्माद्धेतोः त्यत्तवा परोदित इति-एवं निबन्धनं मात्सर्य तथा तत्त्वव्यवस्थाहेतुः सर्वापरिकल्पितसिद्धेरिति-एवं निबन्धनमाश्रित्य महागुणम् । २५ किमित्याह-भाव्यतामेष:-कथञ्चिन्निवृत्तिभाव इति ।। __ आरेकान्तरनिरासायाह-न चेत्यादि । न च असौ कपालमृद् घटमृदः सकाशात् सर्वथाऽन्यैव-अर्थान्तरभूतैव । कुत इत्याह-तदत्यन्तभेदे-घटमृदोऽत्यन्तभेदेऽभ्युपगम्यमाने तस्याः कपालमृदः अमृत्त्वप्रसङ्गात् । कथमित्याह
यथोदकं न मृत् ततः-घटमृदः अत्यन्तभेदात्, एवमसावपि-कपालमृत् ३० स्थादमृदेव । कुत इत्याह-तस्य-अत्यन्तभेदस्य घटमृदा सह अविशेषादिति ॥
पराभिप्रायमाह स्यादेतदित्यादिना । स्यादेतत् अतत्वभावेभ्यः-अमृत्१ 'स्यादेतत् खभावेभ्यो' इति घ-पाठः । २-३ विशेष्यते' इति ङ-पाठः ।