________________
अधिकारः] खोपशव्याख्यामुनिचन्द्रीयविवरणयुतम् १२१
(मूलम्) वियत्कुसुमद्रव्यमस्ति । न चाद्रव्यास्तन्मुकुलितादयः। इत्यन्योन्या. नुविद्धोभयरूपवस्तुसिद्धिः॥ ।
अत एव घटपर्यायनिवृत्तौ कपालकालेऽपि तद्बुद्ध्या मृदनुभूयते, ५ मृन्निवृत्तौ चोर्ध्वादिपर्यायवन्नानुभूयेत। मृदनिवृत्तावप्यू दिनिवत्तित एव तद्भेदसिद्धिरिति चेत्, न, ऊर्ध्वादेर्मुदः सर्वथा भेदासिद्धेः, तत्वरूपाननुविद्धस्यानुपलम्भात् । क्षीरोदकादिभिर्व्यभिचार इति चेत्, न, तेषां पूर्व पश्चाच भेदेनापि सिद्धेः, भिन्नोपादानत्वेन च तन्निवृत्तावपि पृथग मृदस्तद्विकारापत्तेश्च । कपालाद्याकार एव तद्वि-१० कार इति चेत् , न, तस्यापि मृदः सर्वथा भेदासिद्धेः । अत एव
(स्त्रो० व्या०) मुकुलिताधमुकुलिताद्याकारशून्यं वियत्कुसुमद्रव्यमस्ति, सर्वाविसंवादात् । न चाद्रव्यास्तन्मुकुलितादयः-वियत्कुसुममुकुलितादयः । इतिएवम् अन्योन्यानुविद्धोभयरूपवस्तुसिद्धिः॥
यत एवम् अत एव घटपर्यायनिवृत्तौ सत्यां कपालकालेऽपि तबुद्ध्याकपालबुद्ध्या मृदनुभूयते । मृन्निवृत्तौ च सत्याम् ऊवादिपर्यायवन्नानुभूयेतान हि मृन्निवृत्तावू/दिपर्यायोऽनुभूयते। मृदनिवृत्तावपि सत्याम् ऊर्ध्वादिनिवृत्तित एव कारणात् तद्भेदसिद्धिः-मृद ऊर्ध्वादे दसिद्धिः । इति चेत्, एतदाशफ्याह-न, अादेः पर्यायस्य मृदः सकाशात् सर्वथा भेदासिद्धेः । २० असिद्धिश्च तत्स्वरूपाननुविद्धस्य-मृत्स्वरूपाननुविद्धस्य अनुपलम्भात् ऊर्ध्वादिपर्यायस्य ॥ ___ पराभिप्रायमाह-क्षीरोदकादिभिः, 'आदि'शब्दान्मजितादौ गुडदध्यादिग्रहः, व्यभिचारः, तेषामपीतरेतरस्वरूपाननुवेधेनानुपलम्भेऽपि भेदात् । इति चेत्, एतदाशक्याह-नेत्यादि । न-नैतदेवम् , तेषां-क्षीरोदकादीनां पूर्व सम्बन्धात् पश्चाच २५ हंसादिविभागकरणेन भेदेनापि सिद्धेः कारणात् । न चैवमिह भेदेनापि सिद्धिः।
दोषान्तरमाह भिन्नेत्यादिना । भिन्नोपादानत्वेन च, मृदुभंकारयोरिति प्रक्रमः, तन्निवृत्तावपि-ऊर्खाकारनिवृत्तावपि सत्यां पृथग मृदः सकाशात् , तद्विकारापत्तेश्च-ऊर्ध्वादिविकारापत्तेश्च काष्ठभस्मवदिति । कपालाद्याकार एव तद्विकारः-ऊर्ध्वाद्याकारविकारः काष्ठभस्मकल्पः। इति चेत्, एतदाशयाह-३०
१ 'मृत्तद्विकारा.' इति क-पाठः। १ 'मृन्निवृत्ता.' इति क-पाठः । ३ 'तेषामपीतरखरूपा.' इति -पाठः। ४ 'करणेनापि सिद्धेः' इति क-पाठः ।
अनेकान्त. १६