________________
१२०
अनेकान्तजयपताकाख्यं प्रकरणम् [द्वितीयः
(मूलम् ) स्थादेतत् पर्यायनिवृत्तौ द्रव्यनिवृत्तिर्भवति, किं वा नेति । किश्चातः? । यदि भवति, अनित्यमेव तत्, निवृत्तिमत्त्वात्, पर्याय५ स्वात्मवत् । अथ न भवति, हन्त तर्हि द्रव्य-पर्याययोर्भेदप्रसङ्गः । तथाहि-पर्यायेभ्योऽन्यद् द्रव्यम्, तन्निवृत्तावपि तस्यानिवृत्तः, क्रमेलकादिव कर्क इति । एतदप्ययुक्तम्, कथञ्चिन्निवृत्तिभावात् , तत्तनिवृत्तेः, सम्बन्धवीजभावात्। अनुभवसिद्धश्चायम्। तथाहि-द्रव्यपर्यायोभयरूपं वस्तु, इतरेतरविनिर्मुक्तस्योभयस्याग्रहणात्, युक्त्य० नुपपत्तेश्च । अनुपपत्तिश्चो_द्याकाररहितस्य मृद्रव्यस्थासम्भवात् , ऊर्ध्वाद्याकारस्यापि मृद्रव्यरहितस्य । न हि मुकुलिताद्याकारशून्यं
(खो० व्या०) तरेतरविविक्ततयाऽदर्शनात् । उक्तं चेति ज्ञापकमाह-द्रव्यं पर्यायवियुतम् एकान्तेन तथा पर्याया द्रव्यवर्जिता एकान्तेनैव क-देशे कदा-काले केन५प्रमात्रा किंरूपा इतरेतरविकल्पेन नीरूपतापत्तेरित्यर्थः, दृष्टा:-उपलब्धा मानेन
केन वा-प्रत्यक्षादिना इत्यादि । .. स्यादेतत्-अथैवं मन्यसे पर्यायनिवृत्तौ सत्यां द्रव्यनिवृत्तिर्भवति किं
वा नेति ?। किश्चातः?। यदि भवति, अनित्यमेव तत्-द्रव्यम् निवृत्ति- मत्त्वात् कारणात्, पर्यायस्वात्मवदिति दृष्टान्तः। अथ न भवति, हन्त तर्हि २० द्रव्यपर्याययोर्भेदप्रसङ्गः। एतदेव भावयति तथाहीत्यादिना । तथाहि पर्या
येभ्यः सकाशात् अन्यद् द्रव्यम् , तन्निवृत्तावपि-पर्यायनिवृत्तावपि तस्यानिवृत्तेः-द्रव्यस्यानिवृत्तेः कारणात् । क्रमेलकात्-उष्ट्रादिव कर्कः-अश्वविशेष इति निदर्शनमिति । एतदाशङ्कयाह-एतदप्ययुक्तम् । कुत इत्याह-कथञ्चित्केनचित् प्रकारेण तन्निमित्तत्वलक्षणेन निवृत्तिभावात् । कुत इत्याह-तत् २५ तन्निवृत्तेः तस्य-द्रव्यस्य पर्यायनिवृत्तेः । यदि नामैवं ततः किमित्याह-सम्बन्धबीजभावात् तस्य निवृत्त इति तत्र सम्बन्धबीजभावः । अनुभवसिद्धश्चायम्कथञ्चिन्निवृत्तिभावः । एतदेव दर्शयति तथाहीत्यादिना । तथाहीत्युपप्रदर्शने। द्रव्यपर्यायोभयरूपं वस्तु, इतरेतरविनिर्मुक्तस्योभयस्याग्रहणादित्युक्तप्रायम् । तथा युक्त्यनुपपत्तेश्च अनुपपत्तिश्चोर्वाधाकाररहितस्य मृद्३० द्रव्यस्यासम्भवात् । न मूर्तमनाकारमित्यनुमानमेतत् । ऊर्ध्वाद्याकारस्यापि मृगव्यरहितस्य, असम्भवादिति वर्तते । न हीत्यादि निदर्शनम् । न हि