________________
स्वोपज्ञव्याख्यामुनिचन्द्रीयविवरणयुतम
(मूलम् ) "नान्वयस्तद् विभेदत्वान्न भेदोऽन्वयवृत्तितः । मृद्भेदद्व्यसंसर्गवृत्ति जात्यन्तरं हि तत् ॥”
तस्मात् तद् यत एव नित्यम्, अत एवानित्यम्, द्रव्यात्मना नित्य- ५ त्वात्, तस्य चाभ्यन्तरीकृतपर्यायत्वात्; यत एव चानित्यम्, अत एव नित्यम्, पर्यायात्मनाऽनित्यत्वात्, तस्य चाभ्यन्तरीकृतद्रव्यत्वात्, उभयरूपस्य चानुभवसिद्धत्वात्, एकान्तभिन्नस्य चोभयस्य अभावात्, तथाऽनुपलब्धेः । उक्तं च
अधिकार: ]
" द्रव्यं पर्यायवियुतं पर्याया द्रव्यवर्जिताः ।
५
क कवा केन किंरूपा दृष्टा मानेन केन वा ? ॥" इत्यादि ॥
११९
( स्वो० व्या० )
तत् प्रक्रमाद् घटवस्तु । कुत इत्याह - (वि) भेदत्वात् ऊर्ध्वादिरूपेणावधारणप्रतिषेधश्वायमन्वय एव नेति । एवं नै भेद इति न भेद एव । कुत इत्याह- अन्वयवृत्तितः - १५ सृपेण वृत्तेः । किं तर्हि ? | मृद्भेदयसंसर्गवृत्ति अन्वयभेदसम्बन्धेन वर्तते । जात्यन्तरम् एव तत् - वस्त्वित्यादि ॥
पूर्वपक्षग्रन्थयोजनामाह-यस्मादेवं तस्मादित्यादि । तस्मात् तत्-वस्तु यत एव नित्यम् - अनुवृत्ताकारप्रत्ययग्राह्यम्, अत एवानित्यं - व्यावृत्ताकारप्रत्ययग्राह्यम् । उपपत्तिमाह- द्रव्यात्मना नित्यत्वात् कारणात्, तस्य च - द्रव्यात्मनः अभ्य- २० न्तरीकृतपर्यायत्वात्, अन्यथा द्रवणानुपपत्तिरिति भावना । यत एव च अनित्यमत एव नित्यमिति पूर्ववत् । उपपत्तिश्च पर्यायात्मना अनित्यत्वात् कारणात्, तस्य च पर्यायात्मनः अभ्यन्तरीकृतद्रव्यत्वात्, अन्यथा पर्ययणायोग इति हृदयम् । उभयरूपस्य च द्रव्यपर्यायोभयापेक्षया अनुभवसिद्धत्वात् अनुवृत्तव्यावृत्ताकारसंवेदनभावेन । एकान्तभिन्नस्य चोभयस्य - २५ द्रव्यपर्यायलक्षणस्य किमित्याह-अभावात् । अभावश्च तथाऽनुपलब्धेः - तथेती
१ 'सन्तुल्यतामिदं पद्यं तत्त्वार्थाधिगमसूत्रस्य (अ. ५, सू. २९) श्रीसिद्ध सेनगणिकृताया माम्यानुसारिणीटीकायाः ३७७ तमपृष्टगतेन निनावतारितेन पद्येन सह
१०
“नान्वयो मेदरूपत्वान्न मेदोऽन्वयरूपतः ।
मृद्भेदद्वय संसर्गवृत्तिर्जात्यन्तरं घटः ॥ "
२ अनुष्टुप् । ३ इदं पद्यमुद्धृतमवतरणरूपेण श्रीसिद्धसेन गणिभिः तत्त्वार्थाधिगमसूत्रस्य (अ. ५, सू. २९) भाष्यानुसारिण्यां स्वकीयायां टीकायां (पृ. ३७८ ) । ४ अनुष्टुप् । ५ 'न नैतदिति न मेद एव' इति पाठः । ६ 'पर्यायेणायोग' इति क-पाठः ।