________________
११८
अनेकान्तजयपताकाख्यं प्रकरणम् [द्वितीय:
(मूलम् ) "सर्वथा कारणोच्छेदादू भवेत् कार्यमहेतुकम् ।
तच्छत्तयवयवाधारखभावानामनन्वयात् ॥ ५ इत्यादि । न चास्य संवेदनस्य बाधकः प्रत्ययोऽस्ति, कदाचिदप्यनु
पलब्धेः । न च योगिप्रत्ययो बाधक इति युज्यते वक्तुम्, प्रमाणाभावात् । उक्तं च
"नित्यं योगी विजानाति क्षणिकं नेति का प्रमा? ।
देशनाया विनेयानुगुण्येनापि प्रवृत्तितः ॥" . " इत्यादि । तस्मादन्वयाविनाभूतो व्यतिरेकः, व्यतिरेकाविनाभूतश्चान न्वय इति वस्तुखभावः । तथा चोक्तम्
(स्त्रो० व्या०) सर्वथा कारणोच्छेदात् तन्निरन्वयभवनेन भवेत् कार्यमहेतुकम् अभावाद् भावभूतेः। तच्छक्तेः-कारणशक्तेरवयवाः तच्छक्त्यवयवाः-शक्तिशक्तिमतोरभेदात् १५ कारणावयवा एव, तच्छत्तयवयवाश्च ते आधारखभावाश्चेति, प्रक्रमात् कार्यस्वेति विग्रहः, तेषाम् अनन्वयात् , उच्छेदेन इत्यादि । न चास्य संवेदनस्य अन्वयव्यतिरेकवतो बाधकःप्रत्ययोऽस्ति । कुत इत्याह-कदाचिदप्यनुपलब्धेः, जातिविकल्पभावनाकालेऽपि । न चेत्यादि । न च योगिप्रत्ययोऽपास्ताशेषप्रपञ्चो बाधकः, अस्य प्रत्ययस्येति प्रक्रमः, इति युज्यते वक्तुम् । कुतो न युज्यत इत्याह२० प्रमाणाभावात्, योगिप्रत्ययाग्रहणादित्यर्थः । उक्तं चेति ज्ञापकमाह-नित्यं योगी विजानाति क्षणिकं नेति का प्रमा?। न किञ्चित् प्रमाणम्, तज्ज्ञानाग्रहणादिति । देशना प्रमाणं भविष्यतीति एतदपोहायाह-देशनाया विनेयानुगुण्येनापि प्रवृत्तितः भूतात्मनो द्वैताद्वैतदेशनाव ब्राह्मणस्य मृतजायाऽमृतदेशनाव
चेत्यादि । यस्मादेवं तस्मादित्यादि । तस्मात् अन्वयाविनाभूतो व्यतिरेका, २५ तद्गर्भत्वात्, व्यतिरेकाविनाभूतश्चान्वयः, तद्गर्भत्वादेव, इति वस्तुखभाव:वस्तुन आत्मीया सत्ता । तथा चोक्तमिति ज्ञापकमाह-नान्वयेत्यादि । नान्वयः
(विवरणम्) तस्य-घटादेर्भाव:--उत्पाद इति कृत्वा अहेतुकत्वप्रसङ्गः। न हि घटोत्पत्तिकाले मृत्पिण्डलक्षणं त्रैलोक्येऽपि कचिदस्ति तद्विनाशे एव तदुत्पत्त्यभ्युपगमात् , इत्यहेतुकमेव ३० तत् । अतो निरन्वयनश्वराद् वस्तुनस्तत्सदृशान्योत्पादो न सम्भवत्येवेति खितम् ॥
१-२ अनुष्टुप् । ३ 'वस्तुनस्त(त्स)दृशोत्पादो न' इति च-पाठः ।