________________
अधिकारः]
स्वोपशव्याख्यामुनिचन्द्रीयविवरणयुतम्
(मूलम्)
प्रतीतिवाधितत्वेन तेषामनादेयत्वात् । न चैकान्तनित्येषु यथोक्तसंवेदनसम्भवः, व्यावृत्ताकारनिबन्धनस्य पर्यायभेदस्याभावात्, अन्यथैकान्तनित्यत्वानुपपत्तेः । तथा चोक्तम्____ "भावेष्वेकान्तनित्येषु नान्वयव्यतिरेकवत् ।।
संवेदनं भवेद् धर्मभेदाभावादिह स्फुटम् ॥" इत्यादि । तथैकान्तनश्वरेष्वपि नाधिकृतसंवेदनभावो युज्यते, अनुवृत्ताकारनिवन्धनस्य द्रव्यान्वयस्याभावात् ॥
न च निरन्वयनश्वरवादिनस्ततस्तत्सदृशान्यप्रभवः सम्भवति, सर्वथा हेतुनिवृत्तावहेतुकत्वप्रसङ्गात्, अन्यथाऽन्वयसिद्धेरिति । उक्तं च
(खो० व्या०) रिक्तादिलक्षणेभ्यः पदार्थव्यवस्था युज्यते। कुत इत्याह-प्रतीतिवाधितत्वेन हेतुना तेषां-जातिविकल्पानाम् , अनादेयत्वात्। न चेत्यादि । न च एकान्त-१५ नित्येषु पदार्थेषु यथोक्तसंवेदनसम्भवः, यथोक्तमन्वयव्यतिरेकवत् । कुतो न सम्भव इत्याह-व्यावृत्ताकारनिवन्धनस्य पर्यायभेदस्याभावात् एकान्तनित्येषु, अन्यथा-पर्यायभेदे सति एकान्तनित्यत्वानुपपत्तेः । तथा चोक्तमिति ज्ञापकमाह-भावेष्वेकान्तनित्येषु-अप्रच्युतानुत्पन्नस्थिरैकस्वभावेषु नान्वयव्यतिरेकवत् संवेदनं भवेत् । कुत इत्याह-धर्मभेदाभावात्-२० पर्यायभेदाभावात् । इह स्फुटमित्यादि । तथैकान्तनश्वरेष्वपि, भावेष्विति प्रक्रमः, नाधिकृतसंवेदनभावो युज्यते, अधिकृतमन्वयव्यतिरेकवत् । कुतो न युज्यते इत्याह-अनुवृत्ताकारनिबन्धनस्य द्रव्यान्वयस्याभावात् ॥
न चेत्यादि । न च निरन्वयनश्वरवादिनस्ततः-निरन्वयनश्वराद् वस्तुनः तत्सदृशस्य अन्यस्य प्रभवः-उत्पादः सम्भवति । कुतो न सम्भवतीत्याह-२५ सर्वथा हेतुनिवृत्तौ सत्याम् अहेतुकत्वप्रसङ्गात्, तत्सद्दशस्याभावात् तद्भाव इति कृत्वा । अन्यथा-तत एव तद्भावात् अन्वयसिद्धेरिति। उक्तं चेति ज्ञापकमाह
(विवरणम्) (२६-२७) तत्सदृशस्याभावात् तद्भाव इति कृत्वेति । तस्य-घटादेर्जन्यस्य यः सदृशः-मृत्पिण्डादिस्तस्य सम्बन्धिनोऽभावात् सकाशात् , तमाश्रित्येत्यर्थः । तद्भावः३०
१ अनाष्ट।