________________
११६
अनेकान्तजयपताकाख्यं प्रकरणम् [द्वितीयः
(मूलम्) दोषानुपपत्तेः, तस्यैव तथारूपत्वादिति । उक्तं च वादिमुख्येन
"न विषयग्रहणपरिणामाइतेऽपरः संवेदने विषयप्रतिभासो युज्यते, ५ युसययोगात्" इति ॥
न चेदं संवेदनं भ्रान्तमिति शक्यते वक्तुम् , देशकालनरावस्था:भेदेन प्रवृत्तेः । तथाहि-देशान्तरे कालान्तरे नरान्तरेऽवस्थान्तरे च मृत्पिण्डादिषु यथोक्तलक्षणमेव संवेदनं प्रवर्तते । न चार्थप्रभवमविसंवादि संवेदनं विहाय जातिविकल्पेभ्यः पदार्थव्यवस्था युज्यते,
(स्वो० व्या०) उक्तदोषानुपपत्तेः। अनुपपत्तिश्च तस्यैव-संवेदनस्य तथारूपत्वात्-अर्थग्रह्णपरिणामरूपत्वात् । न चैतत् स्वमनीषिकयोच्यत इति ज्ञापकमाह-उक्तं च वादिमुख्येन-श्रीमल्लवादिना सम्म(?न्म)तौ । किमित्याह-न विषय
ग्रहणपरिणामादृतेऽपरः-अन्यः संवेदने विषयप्रतिभासः तत्प्रति१५ बिम्बादिरूपः। युक्त्ययोगादिति । युक्त्ययोगश्च लेशतो दर्शित एव । विशेषतस्तु सर्वज्ञसिद्धि टीकातोऽवसेयः ।।
न चेदमित्यादि । न चेदं संवेदनम्-अधिकृतमन्वयव्यतिरेकवद् भ्रान्तमिति शक्यते वक्तुम् । कुत इत्याह-देशकालनरावस्थाऽभेदेन प्रवृत्तेः कारणात् । एतद्भावनायैवाह-तथाहीत्यादि । तथाहीति पूर्ववत् । देशान्तरे २० कालान्तरे नरान्तरेऽवस्थान्तरे च मृत्पिण्डादिषु यथोक्तलक्षणमेव
संवेदनं प्रवर्तते, न तु गगनावनति-मायोदक-स्थाणुपुरुष-शङ्खादिपीतादिसंवेदनवद् देशान्तरादावन्यथारूपमिति । न चार्थप्रभवं तद्भावभावितया अविसंवादि बाधाऽभावेन संवेदनं विहाय-परित्यज्य जातिविकल्पेभ्यः-व्यतिरिक्ताव्यति
(विवरणम्) २५ (२१-२२) न तु गगनावनतिमायोदकस्थाणुपुरुषशङ्खादिपीतादिसंवेदन
वद् देशान्तरादावन्यथारूपमिति । तत्र 'गगनावनतेः प्रतिभासो दूरदेशवशेन, मायोदकस्य मरीचिकादौ ग्रीष्मादिप्रतप्तकालयशेन, स्थाणौ पुरुषप्रतिभासस्तु तथाविधासन्निहितप्रदेशवर्तिपुरुषर्वशेन विद्यमानस्यापि "देशभेदस्याविवक्षणात्, शङ्खादौ
पीतादिसंवेदनस्य तु काचकामलाग्रुपहतलोचनत्वावस्थावशेन, अनवस्थाया एव ३० प्राधान्येन विवक्षणात् ।।
१ 'दृते परः' इति क-पाठः। २ 'बाधाभावेन' इति क-ङ-पाठः। ३ 'गमनावतु गमनावनति०' इति ख-पाठः, 'गमनावनति.' इति तु च-पाठः। ४ 'गमनावनतेः' इति चपाठः ।। ५ भासस्तु न तथा०' इति च-पाठः । .. ६ 'वचने विद्यमान.' इति क-पाठः । ७ 'देशमेदविवक्षणात्' इति च-पाठः। ८ 'अवस्था एव' इति क-पाठः।