________________
स्वोपशव्याख्यामुनिचन्द्रीयविवरणयुतम्
(मूलम् )
प्रकाशकं ग्राहकमेवेति चेत्, अतदाकारं कथं तदूग्राहकमिति वाच्यम् । किमत्रोच्यते ? । तस्यार्थाकारताऽनुपपत्तेः, अर्थात् तस्य व्यतिरिक्तेत रविकल्पायोगेन तत्रासम्भवात् । व्यतिरिक्तत्वे, नासौ अर्थस्य, सङ्गानुपपत्तेः । अव्यतिरिक्तत्वे तु न संवेदने, अर्थात्मकत्वात्, अर्थतुल्याकारताया अप्यमूर्त्तस्योपरञ्जकयोगाभावेन अभावादिति । यत्किञ्चिदेतत्, अभिप्रायापरिज्ञानात्, संवेदनार्थग्रहण परिणामस्यार्थाकारताऽभ्युपगमात्, तथा चोक्त( स्वो० व्या० )
५०
पराभिप्रायमाह - प्रकाशकं ग्राहकमेवेति चेत्, निदर्शनमात्रं तु प्रदीपः । एतदाशङ्कयाह-अतदाकारमिति, प्रक्रमादनर्थाकारमर्थाकारशून्यम्, कथं तद्ग्राहकम् - अर्थग्राहकमिति वाच्यमेतत् । आह-किमत्रोच्यते । तस्येति प्रक्रमात् संवेदनस्य अर्थाकारताऽनुपपत्तेः । अनुपपत्तिश्व अर्थात् सकाशात् तस्य- आकारस्य व्यतिरिक्तेतरविकल्पायोगेन हेतुना तत्र - संवेदने अ- १५ सम्भवात् कारणात् । एतदेव भावयति व्यतिरिक्तत्व इत्यादिना । व्यतिरिक्तत्वेऽर्थाकारस्याभ्युपगम्यमाने नासौ अर्थस्य आकारः । कुत इत्याह-सङ्गानुपपत्तेः तस्येति सम्बन्धाभावात् । अव्यतिरिक्तत्वे तु न संवेदनेऽर्थाकारः । कुत इत्याहअर्थात्मकत्वात् अर्थ एवासाविति । अर्थतुल्याकारताऽर्थाकारतेत्यप्यसदित्यावेदयन् आह अर्थेत्यादिना । अर्थतुल्याकारताया अपि । किमित्याह- अमूर्त्तस्य संवे - २० दनस्य उपरञ्जकयोगाभावेन, छायाऽण्वादिसम्बन्धाभावेनेत्यर्थः । अभावात् कारणात् अर्थाकारतानुपपत्तिः इति क्रिया । एतदाशङ्कयाह-यत्किञ्चिदेतत्अनन्तरोदितम् । कुत इत्याह- अभिप्रायापरिज्ञानात् । एतदेवाह संवेदनेत्यादिना । संवेदनस्य अर्थग्रहणपरिणामस्तथाऽनुभवसिद्धौ बहिर्मुखावभासः संवेदनार्थग्रहणपरिणामः, तस्य अर्थाकारताऽभ्युपगमात् । तथा च एवं च २५
अधिकारः ]
११५
( विवरणम् )
(२१) उपरञ्जकयोगाभावेनेति । उपरञ्जकेन पदार्थेन सह योगस्य - सम्बन्धस्य अभावेन ॥
(२१) छायाण्वादिसम्बन्धाभावेनेति । यदि हि दृश्यवस्तुनः छायाऽणुभिः, 'आदि' शब्दाददृश्यपदार्थेन च ज्ञानस्य संयोगो भवेत्, तदा युज्येताप्यर्थतुल्याकारता ३० ज्ञानस्य, न चैवममूर्त्तत्वेन ज्ञानस्य, 'मूर्तविषयायास्तदाकारताया अभावादिति ॥
१ 'मूर्तिविषयाया ०' इति क-पाठः ।