________________
११४
अनेकान्तजयपताकाख्यं प्रकरणम् [द्वितीया
(मूलम्) भेवमेव शिवकादिषु, मृदन्वयानुभवात् । न चास्य स्वसंवेद्यस्यापि संवेदनस्यापहवः कर्तुं युज्यते, प्रतीतिविरोधात् । न च निराकार५ मेव संवेदनम् , अर्थान्तरस्येव ततो विवक्षितार्थापरिच्छेदात् । न
सर्थाकारानुभवव्यतिरेकेणापरोऽर्थपरिच्छेद इति, अतिप्रसङ्गात्, सर्वस्य सर्वार्थपरिच्छेत्तृत्वापत्तश्च ॥
प्रदीपवत् प्रतिनियतार्थप्रकाशकस्वभावत्वात् तस्यायमदोष इति चेत्, न, तद्धर्मातिकमात्, तदवगुण्ठितपदार्थस्यापरेणाप्रतीते, १० तथाऽनुभवाभावात्, तस्यापि च ज्ञानत्वेन उक्तदोषानतिवृत्तेः॥
(खो० व्या०) उदक-दहन-पधनादिषु भेदेषु तथाप्रतिभासभेदमेव शिवकादिषु । कुत इलाह-मृदन्वयानुभवात् कारणात् । न चास्य खसंवेद्यस्यापि 'संवेदनस्यापहवः-अपलापः कर्तुं युज्यते, प्रतीतिविरोधात् । न घेत्यादि । १५ न च निराकारमेव एकान्तेन स्वसंवेदनम् । कुत इत्याह-अर्थान्तरस्येव अविषयाभिमतस्य ततः-संवेदनात् । किमित्याह-विवक्षितार्थापरिच्छेदात् । एतद्भावनायाह-न हीत्यादि । न यस्मात् अर्थाकारानुभवव्यतिरेकेणापर:अन्योऽर्थपरिच्छेद इति, अतिप्रसङ्गात् । अतिप्रसङ्गश्च तदाकारताऽभावे तद्व
दपरपरिच्छेदेन ॥ २० दोषान्तरमाह-सर्वस्य, संवेदनस्येति प्रक्रमः, सर्वार्थपरिच्छेत्तृत्वापत्तेश्च, परिच्छेद्यवदपरिच्छेद्याकारशून्यत्वाविशेषादिति हृदयम् ॥ ___ पराभिप्रायमाह प्रदीपवदित्यादिना । प्रदीपवदिति दृष्टान्तः । प्रतिनियतार्थप्रकाशकखभावत्वात् कारणात् तस्य-संवेदनस्य अयम्-अनन्तरोदितो दोषः अदोषः। इति चेत्, एतदाशङ्कयाह-नेत्यादि । न-नैतदेवम् । कुत २५ इत्याह-तद्धांतिक्रमात्-प्रकाशकधर्मातिकमात् संवेदनस्य । अतिक्रमश्च तव.
वगुण्ठितपदार्थस्य संवेदने संवेदनप्रभोपचारात् संवेदनावगुण्ठितपदार्थस्य अपरेण-तदर्थान्तरभूतेन केनचित् अप्रतीतेः कारणात् । अप्रतीतिश्च तथाऽनुभवाभावात्, तस्यापि च अपरस्य ज्ञानत्वेन हेतुना उक्तदोषानतिवृत्तेःतद्धर्मातिकमानतिवृत्तेः । प्रदीपस्तु स्वभाऽवगुण्ठितं तदपरेण संवेदनेन प्रत्याययतीत्येवं ३० प्रकाशक इति तद्धर्मातिक्रमः ॥
१ 'संवेदस्याप०' इति ङ-पाठः । २ 'संवेदते संवेदन०' इति क-पाठः । ३ 'खप्रभाऽवगुण्ठित' इति क-पाठः।