________________
११३
अधिकारः] खोपज्ञव्याख्यामुनिचन्द्रीयविवरणयुतम्
(मूलम्) निबन्धनोपपत्तेजनयति विज्ञानादिकमित्यवगम्यते । नित्यानित्यत्वं च वस्तुनो द्रव्यपर्यायोभयरूपत्वात् , अनुवृत्तव्यावृत्ताकारसंवेदनग्राह्यत्वात् प्रत्यक्षसिद्धमेवेति । तथाहि-मृत्पिण्ड-शिवक-स्थासक-५ घटकपालादिष्व विशेषेण सर्वत्रानुवृत्तो मृदन्वयःसंवेद्यते, प्रतिभेदं च पर्यायव्यावृत्तिः । तथा च न यथाप्रतिभासं मृत्पिण्डादिसंवेदनं तथाप्रतिभासमेव शिवकादिषु, आकारभेदानुभवात् । न च यथाप्रतिभासभेदं तद्विजातीयेषु उदक-दहन-पवनादिषु तथाप्रतिभास(खो० व्या०)
१० तत्तथाभवनेन तथाऽनेकखभावत्वात् , निमित्तोपादानहेतुस्वभावभेदेन निबन्धनोपपत्तेः तत्तत्स्वभावभावेन जनयति विज्ञानादिकं कार्यम् । 'आदि'शब्दात् खोपादानकार्यग्रहः । इति एवम् अवगम्यते-ज्ञायते । एवं ज्ञानोपाय उक्तः ॥
अधुना नित्यानित्यत्वमाह-नित्यानित्यत्वं च वस्तुनो द्रव्यपर्यायो- . भयरूपत्वात् कारणात् । द्रव्यपर्यायोभयरूपत्वं च अनुवृत्तव्यावृत्ताकार-१५ संवेदनग्राह्यत्वात्। किमित्याह-प्रत्यक्षसिद्धमेवेति । एतदेव भावयति तथाहीत्यादिना । तथाहीत्युपदर्शने । मृत्पिण्ड-शिवक-स्थासक-घटकपालादिषु भेदेषु अविशेषेण-सामान्येन सर्वत्रानुवृत्तो मृदन्वयः संवेद्यते, तथाऽनुभवात् । प्रतिभेदं च भेदं भेदं प्रति च मृत्पिण्डादिपर्यायव्यावृत्तिः, संवेद्यते इति वर्तते । एतद्भावनायैवाह-तथा चेत्यादि । तथा च न यथाप्रति-२० भासं-न यथाऽऽकारं मृत्पिण्डादिसंवेदनं तथाप्रतिभासमेव शिवकादिषु, संवेदनमिति वर्तते । कुतो नेत्याह-आकारभेदानुभवात् कारणात् । न च यथाप्रतिभासभेदं तद्विजातीयेषु-मृत्पिण्डादिविजातीयेषु । केष्वित्याह
(विवरणम्) (११) तत्तथाभवनेनेति । तस्य-प्राच्यक्षणवर्तिनो मृदादेखथाभवनेन-घटादि-२५ रूपतया परिणत्या ॥ .. (१३) स्वोपादानकार्यग्रह इति । स्व:-आत्मा मृदादेः सम्बन्धी उपादानं यस्य तत् तथा तच्च तत् कार्य घ घटादिलक्षणं तस्य ग्रहः ॥
१ विज्ञानादिकमप्येवमव०' इति क-पाठः। २ 'तथाहीत्युपप्रदर्शने' इति क-घ-पाठः।
अनेकान्त. १५