________________
अनेकान्तजयपताकाख्यं प्रकरणम्
(मूलम् )
भवननिश्चय एव घटाभावनिश्चयः, तदभवनस्य निरुपाख्यत्वात् । न च तद्द्वारेण तेन तस्य प्रतिबन्धासिद्धेः । न च तदभवनधर्मक५ मेव कपालभवनम्, अनभ्युपगमात् । इति तच्छ्रुत्वेऽपि नश्वरत्वादिसिद्धिः । उत्पादादिमत्त्वे भवनाभवनयोरभेद इति चेत्, न, तुच्छेतरत्वविशेषात्, निवृत्तिभेदाद् ग्रहणनानात्वात् । इति कुतोऽस्य क्षणस्थितिधर्मकत्वमेव, क्षणान्तरेऽपि स्थित्यापत्तेः ? | इत्यलं विस्तरेण । तदेवमिहापि विज्ञानादिकार्यायोग इति स्थितम् ॥ नित्यानित्यं पुनः कथञ्चिदवस्थितत्वात्, अनेकस्वभावत्वात्,
१०
१.१२
[ द्वितीयः
( स्वो० व्या० ) अभवननिश्चयात् कारणात् तद्गतिः - अभवनगतिः । कुत इत्याह- तत्रापीत्यादि । तत्रापि - अन्ते तदयोगात् अभवननिश्चयायोगात् । न चेत्यादि । न च कपालभवननिश्चय एव, कपालग्रहणं भस्माद्युपलक्षणम्, घटाभवननिश्चयः, १५ घटाभवनं काष्ठाभवनादि सूचकम् । कुतो नेत्याह - तदभवनस्य - घटाद्यभवनस्य निरुपाख्यत्वात् - तुच्छत्वात् । न च तद्द्वारेण - कपालभवनद्वारेण, घटाभवननिश्चय इति वर्तते । कुतो नेत्याह - तेनेत्यादि । तेन - कपालभवनेन सह तस्य - घटाभवनस्य । किमित्याह-प्रतिबन्धासिद्धेः, तादात्म्याद्यनभ्युपगमात् । न च तदभवनधर्मकमेव घटाभवनधर्मकमेव कपालभवनम् । कुत इत्याह-अन२० भ्युपगमात् । इति - एवं तत्तुच्छत्वेऽपि - अभवनतुच्छत्खेऽपि सति नश्वरत्वादिसिद्धिः - उत्पत्तिनाशोत्तरोन्मज्जनसिद्धिः ॥
पराभिप्रायमाह-उत्पादादिमत्त्वे सति भवनाभवनयोरभेदः तुल्यधर्मतया । इति चेत्, एतदाशङ्कयाह - नेत्यादि । न- नैतदेवम् । कुत इति हेतूनाह - तुच्छेतरत्व विशेषादू भवनाभवनयोः । तथाहि तुच्छमभवनम्, अतुच्छं भवनमिति २५ विशेषः । तथा निवृत्तिभेदाद् भवनस्य ह्यभवनं निवृत्तिर्भवनं त्वभवनस्य । तथा ग्रहणनानात्वात् । एकमतुच्छतया गृह्यते, अन्यत् तुच्छतया, इत्येवमुत्पादादिसाम्येऽपि भवनाभवनयोः रूपरसादेवि भेदः । सर्वोपसंहारमाह- इति- एवमुक्तनीतेः कुतोऽस्य वस्तुनः क्षणस्थितिधर्मकत्वमेव ? | अभवने कारणमाह-क्षणान्तरेऽपि अस्थितिव्यतिरेकादिना स्थित्यापत्तेः । इत्यलं विस्तरेण । तदेव - ३० मिहापि - क्षणस्थितिधर्मके वस्तुनि विज्ञानादिकार्यांयोग इति स्थितम् ॥
स्वपक्षमधिकृत्य आह - नित्यानित्यं पुनः वस्तु कथञ्चिदवस्थितत्वात्,