________________
अधिकारः] खोपशव्याख्यामुनिचन्द्रीयविवरणयुतम्
(मूलम्) अन्यथा तदनुपपत्तेः, भाविनश्चेन्द्रियेणाग्रहणात्, अतिप्रसङ्गात्, नीरूपत्वाच । न चानेन क्वचिद् भवनवदभवनग्रहः, तथानिश्चयाभावात् । न च निरंशानुभवभावेऽपि विभ्रमात् तदभावः, भवन- ५ निश्चयस्थाप्यभावापत्तेः। न च तन्निबन्धनानुभवे न विभ्रमः, तस्यैव तत्त्वात् । न चैकस्य कचिद् विभ्रमः कचिन्नेति, एकत्वविरोधात् । न चान्तेऽभवननिश्चयात् तद्गतिः, तत्रापि तदयोगात्। न च कपाल
(स्वो० व्या०) तज्ज्ञानेनाभवनाज्ञानादित्यादिदोषाभावः । इति चेत्, एतदाशङ्कयाह-नेत्यादि । न- १० नैतदेवम् । कुत इत्याह-विहितोत्तरत्वात् । तदेव स्मारयति कालभेदेनेत्यादिना। कालभेदेन भवनाभवनयोः तदतत्त्वात्-भवनस्यैवाभवनत्वात् । अन्यथा-एवमनभ्युपगमे तदनुपपत्तेः-अभवनानुपपत्तेः । तत्कालभाविभवनाभिन्नमभवनं च भवनमेवेति तदनुपपत्तिः । यदि नामैवं ततः किमित्याह-भाविनश्च-अभवनस्य इन्द्रियेणाग्रहणात् । ग्रहणे दोषमाह-अतिप्रसङ्गात् तद्वदन्यस्यापि ग्रहणेन । १५ दोषान्तरमाह-नीरूपत्वाच । अभवनस्य नीरूपत्वं नीरूपसत्त्वाद्युपलक्षणमिति ।। ___ अभ्युच्चयमभिधातुमाह-न चेत्यादि । न च अनेन-प्रत्यक्षेण कचित्-एकत्र सर्वत्र वा क्वचिदपि भवनवद्-यथा भवने तथा अभवने ग्रहः । कुतो नेत्याहतथानिश्चयाभावात्-भवन इव निश्चयाभावात् । अभवने आशङ्कान्तरापोहायाहन चेत्यादि । न च निरंशानुभवभावेऽपि सति विभ्रमात् हेतोः तदभाव:- २० अभवननिश्चयाभावः। कुत इत्याह-भवन निश्चयस्यापि तन्निबन्धनस्य अभावापत्तेः कारणात् । आशङ्कान्तरापोहायाह-न चेत्यादि । न च तन्निबन्धनानुभवे-भवननिश्चयनिबन्धनानुभवे न विभ्रमः । कुत इत्याह-तस्यैव-अभवननिश्चयनिबन्धनानुभवस्यैव तत्त्वात्-भवननिश्चयनिबन्धनत्वात्। न चैकस्य सतोऽनुभवस्य कचिद् विभ्रमः कचिन्नेति-एतत् । कुत इत्याह-एकत्वविरोधात् । २५ निरंशमेवैकम् , न तस्य कचिदिति विभागः।न चेत्यादि । न च अन्ते-सन्तानविनाशे
(विवरणम्) (१३-१४) तत्कालभाविभवनाभिन्नमभवनं च भवनमेवेति । अयमभिप्राय:विवक्षितकालभाविना भवनेन सह यद्यभिन्नमभ्युपगम्यते अभवनं तदा तद्भवनमेव भवतीति ।। ___ (२१) भवननिश्चयस्यापि तन्निबन्धनस्येति । निरंशानुभवनिबन्धनस्य ॥
१ प्रेक्ष्यतां ११०तमं पृष्ठम् । २ भिन्नभवन' इति क-पाठः ।