________________
११० अनेकान्तजयपताकाख्यं प्रकरणम्
[द्वितीय: (मूलम्) इति चेत्, अभवनस्यैवस्वभावभवनेऽपि को दोषः?। हेत्वभावनिःखभावते इति चेत्, न, तद्भवनस्यैव तद्धेतुत्वात् , तद्भावभावि५ त्वात्, भावाभवनस्याभावभवनात्, तुच्छतया तद्भावसिद्धेः, अन्यथा तन्नाशायोगात् इति ॥
न च तन्निाखभावमेव,तुच्छज्ञेयखभावत्वात् , अन्यथा तज्ज्ञानानुपपत्तेः 'तदेव न भवति" इत्यज्ञातोक्तप्रसङ्गात् , तज्ज्ञानेनाभवनाज्ञानात्, कालभेदेन तदतत्त्वादिति । तस्यैव क्षणादूर्ध्वमभवनख१० भावत्वात् प्रत्यक्षेण तथाग्रहणात् यथार्थ तत्प्रवृत्तेरभवनज्ञानादुक्तदोषाभाव इति चेत्, न, विहितोत्तरत्वात् , 'कालभेदेन तदतत्त्वात्,
(खो० व्या) इति चेत्, एतदाशयाह-अभवनस्यैवंखभावभवने-क्षणादूर्ध्वं खरूपता
खभावोत्पादे को दोषः? । न कश्चिदित्यर्थः । हेत्वभावनिःस्वभावते दोषः । १५ इति चेत्, एतदाशयाह-नेत्यादि । (न-) नैतदेवं यदुक्तं भवता । कुत इत्याहतद्भवनस्यैव यद्भवनमेतत् तस्यैवेत्यर्थः । किमित्याह-तद्धेतुत्वात्-अभवनहेतुत्वात् । कुत एतदेवमित्याशङ्कयाह-तद्भावभावित्वात्-भवनभावभावित्वात् अभवनस्य । कस्तुच्छस्य भाव इत्याशङ्कापोहायाह-भावाभवनस्य-तुच्छस्य
अभावभवनात्, एतदेव ह्यभावभवनं यद् भावाभवनमिति । एवं च तुच्छत्तया २० नीरूपतया तद्भावसिद्धेःअभवनभावसिद्धेः, अभवनं च भावश्चेति विरुद्धम् । भाव एव नाश इति तु कथं न विरुद्धम् ? । तत्क्षणस्थितिधर्मकत्वेन अभवनमपि कादाचित्कतयेति । अत एवाह-अन्यथा तन्नाशायोगादिति-भवननाशायोगादिति ॥ __ अभ्युच्चयमाह न चेत्यादिना । न च तन्निःस्वभावमेव अभवनम् । कुत इत्याह-तुच्छज्ञेयखभावत्वात् , अन्यथा तज्ज्ञानानुपपत्तेः-अभवनज्ञाना२५ नुपपत्तेः । ततः किमित्याह-'तदेव न भवति' इत्यज्ञातोक्तप्रसङ्गात्। प्रसङ्गश्च तज्ज्ञानेन-भवनज्ञानेन अभवनाज्ञानात्, अज्ञानं च कालभेदेन भवनाभवनयोस्तदतत्त्वात्-भवनस्यैवाभवनत्वादिति ॥
पराभिप्रायमाह-तस्यैवेत्यादि । तस्यैव-भवनस्य वस्तुनः क्षणादूर्ध्वमभवनखभावत्वात् कारणात् । यदि नामैवं ततः किमित्याह-प्रत्यक्षेण तथाग्रहणात्३० क्षणादूर्ध्वमभवनस्वभावतया ग्रहणात् । किमेतदेवमित्याह-यथार्थ तत्प्रवृत्तःप्रत्यक्षप्रवृत्तेः । किमित्याह-अभवनज्ञानात् कारणात् उक्तदोषाभाव:१ प्रेक्ष्यतां १०८तम पृष्ठम् । २ 'यदभवन ०' इति घ-पाठः। ३ 'योगाद् भवन०' इति ङ-पाठः ।