________________
अधिकारः] स्वोपशव्याख्यामुनिचन्द्रीयविवरणयुतम्
(मूलम्) द्वितीयादिक्षणास्थितौ प्रथमक्षणस्थितेरभावाद् भावे वा तदनुपपत्तेः प्रतियोग्यभावात् तदन्यत्वादिविकल्पानुपपत्तिः । तथाहि-द्वितीयक्षणे तदेव न भवतीति । उक्तं च__ “न तत्र किश्चिद् भवति न भवत्येव केवलम्" इति ।।
(खो० व्या०) प्रथमक्षणस्थिति-द्वितीयादिक्षणास्थित्योरन्यत्वादिविकल्पैरघटमानत्वात् क्षणस्थितिधर्मसत्तायाः । तथाहि-तयोः प्रथमक्षणस्थिति-द्वितीयादिक्षणास्थित्योः अन्यत्वमनन्यत्वमन्यानन्यत्वमवाच्यत्वं वा स्यात् । अन्यत्वेक्षणान्तरस्थितेरिव प्रस्तुतास्थित्यविरोधात् १० क्षणस्थितित्वाभावः । अनन्यत्वे प्रथमक्षणेऽप्यस्थितिः, द्वितीयादिष्वपि वा स्थितिः, अन्यथाऽनन्यत्वायोगात् , तयोरक्ये ह्यनन्यत्वमिति भावनीयम् । अन्यानन्यत्वे विरोधः, सहानवस्थानात् । अवाच्यत्वे ववचनविरोधः, अवाच्यत्वेनैव वाच्यत्वात् । स्यादेतदित्यादि । स्यादेतत्-अथैवं मन्यसे द्वितीयादिक्षणास्थितौ सत्यां प्रथमक्षणस्थितेरभावात् कारणाद् भावे वा प्रथमक्षणस्थितेः तदनुप- १५ पत्तेः-द्वितीयादिक्षणास्थित्यनुपपत्तेः तस्यासावस्थितिरिति कृत्वा । किमित्याहप्रतियोग्यभावात् पक्षद्वयेऽपि तदन्यत्वादिविकल्पानुपपत्तिः तयोःप्रथमक्षणस्थिति-द्वितीयादिक्षणास्थित्योरन्यत्वादिविकल्पाघटमानता। एतद्भावनायैव आह-तथाहीत्यादि । तथाहीत्युपप्रदर्शने । द्वितीयक्षणे तदेव न भवति यत् प्रथमक्षणेऽभूदिति । उक्तं च धर्मकीर्तिना- . "न तत्र किश्चिद् भवति न भवत्येव केवलम् ” इति वार्तिके॥
(विवरणम् ) (१०-११) क्षणान्तरस्थितेरिव प्रस्तुतास्थित्यविरोधात् क्षणस्थितित्वाभाव इति । यथाहि-क्षणिकस्य घटादेः स्वकाले पटादिक्षणेन सह वस्त्वन्तरत्वान्न विरोधः, एवं द्वितीयक्षणभाविन्या अस्थित्याऽपि सह प्रथमक्षणस्थितेने विरोधः २५ सङ्गच्छते, अन्यत्वाविशेषात् , ततश्च स्खलनाभावात् । द्वितीयेऽपि क्षणे प्रथमक्षणभाक् सत्त्वं स्थितिमदुपपद्यत इति ॥
(१६) तस्यासावस्थितिरिति कृस्वेति । तस्य-प्रथमक्षणभाविनः पदार्थस्य सम्बन्धिनी असौ-द्वितीयक्षणभाविनी अस्थि तिरिति ॥
क्षणस्थितौ' इति क-पाठः। २ 'धर्मकीर्तिकृते वार्तिके। ३-४ अनुष्टुप् । ५ 'काले धादिः' इति ख-पाठः। ६ 'कृत्वा तस्य' इति क-पाठः ।
भनेकान्त.१४