________________
१०६
अनेकान्तजयपताकाख्यं प्रकरणम्
(मूलम् )
[ द्वितीयः
नन्वेवमपि भवनादूर्ध्वमभवनात् तत्कादाचित्कत्वतस्तदुत्पत्तेः, अत एव नाशाद् भवनोन्मज्जनप्रसङ्गः । स्थादेतत् न भवतीति भवन५ क्रियाप्रतिषेधमात्रमहेतुकमदः, तत् कथमस्य कादाचित्कत्वादि ? । उच्यते-भवनकादाचित्कतया तत्पूर्वकत्वेन तद्धेतुत्वोपपत्तेः, अन्यथा भवनेऽप्युत्पच्याद्यभावः, तस्यापि अभवन क्रियाप्रतिषेधमात्रत्वात ( स्वो० व्या० )
-
एतदाशवाह - नन्वेवमपीत्यादि । नन्वेवमपि तदेव न भवतीत्यस्मिन्नपि १. पक्षे भवनादूर्ध्वमभवनात् कारणात् तत्कादाचित्कत्वतः तस्य - अभवनस्य कादाचित्कत्वेन हेतुना तदुत्पत्तेः अभवनोत्पत्तेः कारणात् । अत एव - उत्पत्तेरेव हेतोः किमित्याह - नाशात् अभवनस्य भवनोन्मज्जनप्रसङ्गः, तदभवननाशान्यथाऽनुपपत्तेरिति भावनीयम् ॥
स्यादेतदित्यादि । अथैवं मन्यसे न भवतीति भवनक्रियाप्रतिषेध१५ मात्रमहेतुकमदः - - एतत् तत् कथमस्य - अभवनस्य कादाचित्कत्वादि, हेतुभावाधीनत्वात् कादाचित्कत्वस्य ? | 'आदि' शब्दात् तन्नाशभवनोन्मज्जनग्रहः ॥
2
उच्यतेऽत्र समाधिः - भवनकादाचित्कतया कारणेन तत्पूर्वकत्वेनभवनपूर्वकत्वेन हेतुना तद्धेतुत्वोपपत्तेः - भवनहेतुत्वोपपत्तेः, अभवनस्य यद्भवनानन्तरं तत् स एव तस्य हेतुरिति । अन्यथेत्यादि । अन्यथा - एवमनभ्युपगमे भवने२० ऽप्युत्पत्त्याद्यभावः - उत्पत्तिनाशाभावः । कुत इत्याह- तस्यापि - भवनस्य अभवन क्रियाप्रतिषेधमात्रत्वात् कारणात् । काsभवनस्य क्रियेत्याशङ्क्य
( विवरणम् )
(१३) तदभवननाशान्यधाऽनुपपत्तेरिति । तस्य - प्राध्यक्षणवर्तिनो भवनस्य यदभवनं द्वितीयक्षणेन तस्य योऽसौ नाशस्तृतीयक्षणे तस्य अन्यथा - विनष्टभावेन २५ उन्मज्जनमज्जनमन्तरेणानुपपत्तेः - अघटनात् ॥
(१८-१९) यद्भवनानन्तरं तत् स एव तस्य हेतुरिति । यस्य - घटादेः सम्बन्धिनो भवनादनन्तरं तत् अभवनं स एव - घटादिर्भ वनरूपस्तस्य - अभवन (स्य) हेतुः पंक्ती भवनस्य हेतु:, अन्वयाभावेन तस्यानन्तर्यमात्रनिबन्धनत्वाद् भवन्मते कार्य - कारणभावस्य ||
१ 'पत्तिरिति' इति क-पाठः । २ 'लक्षणस्तस्य ' इति क- पाठः । ३ 'भावोन्मननमन्तरेणानु०' इति च पाठः । ४ 'यस्य घटादिर्भवनरूप स्वस्य' इति च - पाठः । ५ 'पत्तौ भवनस्य ' इति क-पाठः । ६ ' कारणाभावस्प' इति ख- पाठः ।