________________
१०४
अनेकान्तजयपताकाख्यं प्रकरणम्
[द्वितीयः (मूलम् ) तथैकस्वभावत्वमनेककार्यभावादेर्न सन्यायसङ्गतमिति सूक्ष्मधिया
भावनीयमिति । एवं तावदेकान्तनित्यपक्षे विज्ञानादिकार्यायोगात् ५ तदवगमाभाव इति ॥ __ अथापि प्रकृत्यैकक्षणस्थितिधर्मकमेकान्तानित्यमभ्युपगम्यते । एवमपि विज्ञानादिकार्यायोगात् तदवगमाभाव एव, तदभावभाविनो विज्ञानस्य तत्कार्यत्वानिश्चयात् । न च सर्वथैकक्षणस्थितिधर्मणः सत्तैव युक्ता, द्वितीयादिक्षणास्थित्यभावे सति तत्क्षण१० स्थितिधर्मकत्वायोगेन तदन्यत्वादिविकल्पानुपपत्तेः । स्यादेतत्
(खो० व्या०). मपि-यावदपि कालस्तावदपि तस्य-वस्तुनः तथैकस्वभावत्वम्-अप्रच्युतानुत्पन्नस्थिरैकरूपतया अनेककार्यभावादेः कारणात् । 'आदि'शब्दात् तत्तत्कृतौ तत्तदवस्थाभावग्रहः । न सन्न्यायसङ्गतमिति-एवं सूक्ष्मधिया भावनीयम्, १५ तदेककरणाकरणयोः स्वभावभेदेनान्तरीयकत्वादिति । एवं तावदेकान्तनित्यपक्षे किमित्याह-विज्ञानादिकार्यायोगात् कारणात् , 'आदि'शब्दादवस्थापरिग्रहः, तदवगमाभाव इति-एकान्तनित्यावगमाभाव इति ॥
द्वितीयपक्षमधिकृत्याह-अथापीत्यादि । अथापि प्रकृत्यैकक्षणस्थितिधर्मकमेकान्तानित्यमभ्युपगम्यते वस्तु । एवमपि विज्ञानादिकार्यायोगात् २० कारणात् तदवगमाभाव एव-एकान्तानित्यावगमाभाव एव । कुत इत्याहतदभावभाविनः-वस्त्वभावभाविनः । विज्ञानस्य तत्कार्यत्वानिश्चयात्, अर्थात्यन्तपरोक्षतयेति भावः। न चेत्यादि । न च सर्वथा-एकान्तेन क्षणस्थितिधर्मणः-वस्तुनः सत्तैव युक्ता । कुत इत्याह-द्वितीयादीत्यादि । द्वितीयादि
क्षणास्थित्यभावे सति तत्क्षणस्थितिधर्मकत्वायोगेन तस्यैव वस्तुनः २५ क्षणस्थितिधर्मकत्वायोगेन हेतुना तदन्यत्वादिविकल्पानुपपत्तेः, तयोः
. (विवरणम्) (१३-१४) तत्तत्कृतौ तत्तदवस्थाभावग्रह इति । तस्य तस्य स्थास-कोश-कुशूलादेः कार्यस्य कृतौ करणे तस्यास्तस्यास्तत्तत्कार्यकरणानुकूलाया अवस्थायाः कुम्भकारादेः कार्यकर्तुः सम्बन्धिन्या भावग्रहः सत्ताङ्गीकारः। कुम्भकारो हि अन्यावस्थातोऽपरिणतो ३० घदं कुरुतेऽवस्थान्तरगतश्च शरावोदञ्चनादीनि कार्याणि, व्यापारभेदस्योपलम्भात् ।।
१ प्रेक्ष्यतां सप्तदशं पृष्ठम् । २ 'स्तन्न कार्यः' इति क-पाठः। ३ 'क्षणस्थित्य.' इति कपाठः। ४ 'तत्कृतो' इति क-पाठः । ५ 'भावभेदनान्तरीय.' इति घ-पाठः ।