________________
अधिकारः] स्वोपशव्याख्यामुनिचन्द्रीयविवरणयुतम्
१०३ (मूलम् ) सर्वथा स्वभावभेदमन्तरेणोक्तानुपपत्तेः। न च येनैव खभावेनैकं दाह्यं दहति तेनैव दाह्यान्तरम् , तस्य तथातदनियतत्वे दाद्यान्तरवत् तदा तददहनप्रसङ्गात् । नियतत्वे च तद्दहनादहनयोरन्यत्र ५ तदसिद्धेः स्थितः कथञ्चित् खभावभेदः, इति आकालमपि तस्य
(स्पो० व्या) न ह्यग्निरनपगते दहनखभावे न दहतीत्यादि । इति-एवं चेन्मन्यसे, एतदाशक्कयाहनेत्यादि । न-नैतदेवम् । कुत इत्याह-सर्वथा-एकान्तेन स्वभावभेदमन्तरेण, तदेकस्वभावत्व एवेत्यर्थः । उक्तानुपपत्तेः एकदाह्यदहने तददहनं दाह्यान्तरदहनं.
चेत्युक्तम् , न चैतद् द्वयमेकस्वभावत्वादुपपद्यते, तददहनवद् दाह्यान्तरदहनायोगाद् विपर्ययो वा हेत्वभेदादिति सूक्ष्मधिया भावनीयम् ॥ ___ दोषान्तरमाह न घेत्यादिना । न च येनैव स्वभावेनैकं दाह्यं दहति, अग्निरिति प्रक्रमः, तेनैव दाह्यान्तरम्-अन्यत् । कुत इत्याह-तस्य-स्वभावस्य तथातेन दहनादहनप्रकारेण तदनियतत्वे तयोः-दाह्ययोरनियतत्वे दहनादहनं प्रति । १५ किमित्याह-दाह्यान्तरवत्-यन्न दहति तद्वत् , तदा-तस्मिन् काले तददहनप्रसङ्गात्, यद् दहति तेददहनप्रसङ्गात् । प्रसङ्गश्च तदनियतत्वाविशेषेण उभयदहनखमावोऽप्यसौ तद् दहनादहनं प्रत्यनियत इत्येकं न दहति तदेतदनियतत्वं यदपि दहति तत्राप्यविशिष्टमेवेति तददहनप्रसङ्गः स्पष्टः । नियतत्वे च तस्य वस्तुस्वभावस्थाभ्युपगम्यमाने क्वेत्याह-तद्दहनादहनयोः तयोः-दाह्ययोर्ये दहना- २० दहने तयोर्यद् दहति तद् दहत्येव, यच्च न दहति तन्न दहत्येवेत्येवम्भूते । किमित्याह-अन्यत्र-प्रतियोगिनि यत् तदा न दहति तत्र, तदसिद्धेःदहनासिद्धेः, न चैतदेवमिति स्थितः कथञ्चित् खभावभेदः, इति-एवम् आकाल
(विवरणम्) (२३) न चैतदेवमिति-न पुनरेतदेवं यदुत दहनस्यासिद्धिरेव । यदि हि १५ नित्यस्वरूपतया एकस्वभावः, तदा यावत्त्वेन कालान्तरयोगेनापि दाह्यमस्ति तदेकदाह्यदहनकाले सर्व दखेत, न च तदस्ति, अतो बलादस्य "दग्धुंशक्यतृणकाष्ठापि प्रतीत्य दहनादहनस्वभावतेति ॥
१ तदसिद्धिरिति' इति क-पाठः। २ प्रेक्ष्यतां १०२तम पृष्ठम् । ३ 'भाव एवेत्यर्थः' इति ङपाठः। ४ 'तथानेन दहना.' इति -पाठः । . ५ 'तदहन ' इति घ-पाठोऽशुद्धः। ६ 'तस्या खभाव.' इति -पाठः। ७ 'तदसिद्धिर्दहनासिद्धिर्न' इति ङ-पाठः। ८ 'एकत्वभावखभात्र एक तदा' इति ख-पाठः। यावत् तेन' इति च-पाठः । १० 'दग्धुं शक्यः ' इति ख-व-पाठः ।