________________
অনষ্কাষণাঙ্গা সঙ্কস [द्वितीय
(मूलम्) सदुदयेऽपि तनिबन्धनस्य सतो न तस्य निवृत्तिः, अविकलतथात्वे चन पुनस्तस्यैव करणमिति व्याहतम् । यद्यनिवृत्तिः कथमकरणम् ? ५ अकरणं चेत् , कथमनिवृत्तिः। यदैव तत् कृतं न च भूयः करिष्यति तदेव तदैव तत्तस्करणखभावो जरयेव यौवनं तदकरणस्वभावेनापनीता, अन्यथा तद्भावेन बलात् तत्फलप्रसङ्गः। न ह्यग्निरनपगते बहनखभावे न दहति, स्वभावापगमे च 'नियतमनित्यता । तथापि एकदाबदहने तददहनाद् दास्यान्तरदहनाचादोष इति चेत्, न,
(स्वो० व्या०) यथोक्तं मिथ:-परस्परं विरुद्धं भाषयति-असङ्गतमुल्लापयति । कथमेतद् विरुद्धमित्याह-तदुदयेऽपीत्यादि । तदुदयेऽपि तस्मात्-स्वभावात् उत्पादेऽपि, विवक्षितकार्यस्येति प्रक्रमः, तन्निबन्धनस्य-विवक्षितकार्यनिबन्धनस्य सतः-भवतः न
तस्य-खभावस्य निवृत्तिः । अविकलतथात्वे च तत्स्वभावस्स, न पुनः १५ तस्यैव-विवक्षितकार्यस्य करणमिति व्याहतम्, तत्तादवस्थ्ये तदकरणविरोधात् । तथा चाह-यद्यनिवृत्तिरित्यादि । यद्यनिवृत्तिर्विवक्षितकार्यकरणखमावस्स कथमकरणं विवक्षितकार्यस्य ? अकरणं चेद् विवक्षितकार्यस्य कथमनिवृत्तिः विवक्षितकार्यकरणखभावस्य ? । एतद्भावनायैवाह-यदैवेत्यादि । यदैव तत् कृतंविवक्षितकार्य न च भूयः-पुनः करिष्यति तदेव तदैव । किमित्याह-तत्तत्२० करणखभाव इति । तस्य-वस्तुनस्तत्करणस्वभावः-विवक्षितकार्यकरणात्मभावः ।
जरयेव यौवनमिति दृष्टान्तः। तदकरणखभावेन-विवक्षितकार्याकरणात्ममावलक्षणेन अपनीत:-तिरस्कृतः । इत्थं चैतदङ्गीकर्तव्यमित्याह-अन्यथेत्यादि । अन्यथा-एवमनभ्युपगमे तद्भावेन-तत्तत्करणस्वभावभावेन बलात्-सामर्थ्यात्
तत्फलप्रसङ्ग:-विवक्षितकार्यप्रसङ्गः । अमुमेवार्थ स्थूरोक्त्या निदर्शनान्तरेणाह २५ न हीत्यादिना । न हि अग्निरनपगते दहनस्वभावे नैश्चयिके न दहति, किन्तु दहत्येव, नैश्चयिकस्य दहनस्वभावस्यैवमात्मकत्वात् । स्वभावापगमे च विवक्षितकार्योदये सत्यभ्युपगम्यमाने नियतमनित्यताऽधिकृतवस्तुनः, अतादवस्थ्यस्यैवानित्यत्वादिति । निदर्शनमधिकृत्याह-तथापीत्यादि । तथापि-एवमपि एकदाह्यदहने सत्यग्नेः तददहनादू दग्धत्वेनैव दाह्यान्तरदहनाच्च तददग्धत्वेन अदोषो
१ 'यदेव' इति क-पाठः । २ 'तत्करण.' इति ग-पाठः । ३ 'नित्यमनित्यता' इति क-पाठः। ४ 'परस्परविरुद्धं' इति घ-पाठः । ५ 'तदैव तदैव' इति क-पाठः। ६ 'गमे विवक्षित.' इति इ-पाठः ।