________________
अधिकारः] खोपशव्याख्यामुनिचन्द्रीयविवरणयुतम्
(मूलम् ) संवेदनादेर्भावः । तथा च सति तदनिवृत्तावपि न पूर्ववत् तदभावः, तस्य सहकारिणस्तदैव भावात् । न च पूर्वमपि भावः,तस्यैवाभावात्। न च तदुदयेऽपि तन्निवृत्तिः, तथास्वभावत्वात् । न च पुनस्तस्यैव ५ करणम्, तथाखभावत्वादेव। किमेतदेवम् ?। अचिन्त्योऽपर्यनुयोगाह: खभाव इति ।। अहो दुरन्तः खदर्शनानुरागः। एवमपि मिथो विरुद्धं भाषयति
(स्खो० व्या०) तस्यैव तस्यैव-विशिष्टस्य कार्यस्य अवस्थासंवेदनादेः-खारूपिकस्य निमित्त-१० भावजन्यस्य च भाव इत्युत्पादः । तथा च सति किमित्याह-तदनिवृत्तावपि-अनन्तरोदितखभावानिवृत्तावपि न पूर्ववत् तदभावा-कार्याभावः । कुत इत्याह-तस्य सहकारिणो विशिष्टस्य तदैव भावात् कारणात् । न च पूर्वमपि भावः, प्रक्रमात् कार्यस्य, तस्यैव-सहकारिणोऽभावात्, पूर्वमस्य चानवस्थानात् तेन न कादाचित्कत्वविरोधः । न च तदुदयेऽपि-अधिकृतकार्योत्पादेऽपि १५ तन्निवृत्तिः-अनन्तरोदितस्वभावनिवृत्तिः। कुत इत्याह-तथास्वभावत्वात्, तथा-तेन प्रकारेण कालभवनलक्षणेन आत्मसत्तायाः स्थितरित्यर्थः । न च पुन: तस्यैव-कृतकार्यस्य करणं तथास्वभावत्वादेव एवंविध एवासाविति । किमेतत्-अनन्तरोदितम् एवं स्वतत्रराजक्रीडाप्रख्यम् ? । एतदाशङ्कयाह-अचिन्त्यःअचिन्तनीयो योगिज्ञानवत् अपर्यनुयोगार्हःन पर्यनुयोगमर्हत्यम्यादेरौष्ण्यादिवत् २० खभाव इति किमत्र कुर्मः ? ॥ एतदाशयाह-अहो दुरन्तः खदर्शनानुराग इति पूर्ववत् । एवमपि
(विवरणम्) अथ 'नित्यानित्याधिकारे किञ्चिल्लिख्यते-(१०-११) स्वारूपिकस्य निमित्तभावजन्यस्य चेति । खारूपिकस्य-स्वरूपमानभावस्य नवपुराणत्वादेनिमित्तभावेन २५ जन्यते यद् घटादि तनिमित्तभावजन्यं तस्य । घटादिगोचरसंवेदनस्यैव नवपुराणत्वादिकाद्यवस्था घटस्य स्वाभाविक्व एव । यच्च स्वगोचरं संवेदनं तत्र निमित्तभावेनैव घटो व्याप्रियते, न च स्वयं तद्रूपतया "परिणामेनेति ॥ .१ 'कारिणस्तदैवाभावाभावात्' इति ग-पाठः । २ 'इत्युत्पादेः' इति ङ-पाठः । ३ 'पूर्व अस्य वाऽव.' इति उ-पाठः । ४ 'कार्योत्पातेऽपि तन्निवृत्तिः' इति ङ-पाठः । ५ 'प्रकारेणाकाल.' इति क-पाठः । ६ स्थितिरित्यर्थः' इति क-पाठः । ७ 'तत्र पुनस्तस्यैव' इति ङ-पाठः । ८ 'प्रेक्ष्यता ५७तम पृष्ठम् । ९ 'भावे जन्यते' इति क-पाठः। १० 'परिणामतेति' इति च-पाठः।