________________
अनेकान्तजयपताकाख्यं प्रकरणम् [द्वितीयः
(मूलम्) कृतखभावस्य नित्यत्वानुपपत्तेः। तथाहि-यदि सदा तेन सह तजनन
खभावं किं न जनयति? अजनयद् वा कथं सदा तत्वभाव५ मिति । ततश्च यदा तद् भवति तदा तेन सह तज्जननखभावम् , न तु सदेत्यवश्यमङ्गीकर्तव्यम्; अन्यथा सदा तस्यापि भावापत्तिः, सदा तेन सह तजननवभावत्वादिति । एवं च स्वभावभेदे कथमेकान्तनित्यतेति चिन्त्यम् ॥
स्यादेतत् न तत्र खभावभेदः, आकालमपि तस्य तथैकखभाव१० त्वात् । तथाहि-आकालमविचलितखभावमेवेदमित्थंविधं येन तत एव तत्तत्सहकारिसन्निधावेव तदैव तदैव तस्यैव तस्यैवावस्था
(स्वो० व्या०) त्वस्यापि नित्यत्वे सति सदा तज्जननप्रसङ्गात्-कार्यजननप्रसङ्गात् । विपक्षे बाधामाह अन्यथेत्यादिना । अन्यथा-एवमनभ्युपगमेऽधिकृतखभावस्य-तेन १५ सह तजननस्वभावस्य नित्यत्वानुपपत्तेः । एतदेव भावयति तथाहीत्यादिना । तथाहि यदि सदा तेन-सहकारिणा सह तज्जननखभावं-कार्यजननस्वभावम् , वस्त्विति प्रक्रमः, किंन जनयति कार्यम् ? । अजनयद वा कथं सदा तत्वभावं-तेन सह तजननस्वभावमिति?। नैव । ततश्चेत्यादि । ततश्च-एवं च सति यदा तद् भवति कार्य तदा तेन-सहकारिणा सह तजननस्वभावं२० कार्यजननखभावं वस्तु, न तु सदेत्यवश्यमङ्गीकर्तव्यं परेण; अन्यथा-एवमनभ्युपगमे सदा तस्यापि भावात्तिः सहकारिणः । कुत इत्याह-सदा तेनसहकारिणा सह तज्जननखभावत्वात्-विवक्षितकार्यजननस्वभावत्वाद् वस्तुन इति । एवं च स्वभावभेदे सति वस्तुनः कथमेकान्तनित्यतेति-एतत् चिन्त्यम् , नैवेत्यर्थः ॥ २५ स्यादेतदित्यादि । स्यादेतत्-अथैवं मन्यसे न तत्र-वस्तुनि स्वभावभेदः। कुत इत्याह-आकालमपि, यावदपि कालस्तावदित्यर्थः, तस्य-वस्तुनः तथाचित्रसहकारियोगानेककार्यसाधकत्वेन एकखभावत्वात् । एतदेव भावयति तथाहीत्यादिना । तथाहि आकालं यावदपि कालः अविचलितखभाव
मेव-अप्रच्युतानुत्पन्नस्थिरैकस्वभावमेव इदं-वस्तु इत्थंविधम्-एवम्प्रकारं येन ३० तत एव वस्तुनः तत्तत्सहकारिसन्निधावेव सति तदैव तदैव-विशिष्टे काले
१ 'यद् भवति' इति ग-पाठः । २ 'भावे भेदः' इति ग-पाठः। ३ 'मनु सदे.' इति ङ-पाठः। ४ 'पत्तः सह.' इति घ-पाठः ।